Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 128
________________ १०१ ॥ श्रीन्यायसिन्धुः ॥ नयविचारः - प्रक्रान्तमाविषयभागविधिप्रवीणो, ज्ञेयो नयस्तदितरांशनिषेधकुण्ठः । नामानि प्रापकनिवर्तकसाधकोप - लम्भावभासकमुखानि बहूनि तस्य ।।१२७८।। द्रव्यार्थपर्ययप्रभेदत एष इष्टो, द्वेधा तथाऽर्थमननेन समासतोऽत्र । व्यासात् तु सप्तविध आर्हततत्त्वविद्धि - रुक्तोऽथ दर्शितनयौ सकलस्य मूलम् ।।१२७९।। द्रव्यं प्रधानत उपैति न पर्ययं तु, द्रव्यार्थिको गुणतयोपगमोऽस्य तस्मिन् । पर्यायमात्रमुपगच्छति पर्ययोऽपि, प्राधान्यतो न कुनयत्वप्रसक्तिरस्य ।।१२८०।। द्रव्यार्थिकस्य खलु नैगमसङ्ग्रहर्जु - सूत्रा मता विभजना व्यवहारमिश्राः । शब्दस्तथा समभिरूढसमन्वितैव - म्भूतोऽपरस्य जिनभद्रमते नयस्य ।।१२८१।। श्रीसिद्धसेनकृतिनस्तु मते न चर्नु - सूत्रस्य सम्मत इहाऽऽदिनये प्रवेशः । अन्यत् समानमुभयोर्मत एव सप्त, स्युबै नया न च विरोधघटाप्रथाऽत्र ।।१२८२।। शब्देन साम्प्रतमुखस्य न यन्नयस्यो - पादानतोऽपि ननु पञ्च नयाः प्रसिद्धाः । ते देशप्रस्थकवसत्युपनीतिभिः स्युः, शुद्धा यथाक्रममनिन्धधिया विभाव्याः ।।१२८३।। तत्राऽऽदिमो भवति सङ्ग्रहनामधेयो, वेदान्तदर्शनभवस्तत उच्यते ज्ञैः । एकान्ततत्त्वमननाश्रयणात् परन्तु, दुर्नीतिताऽस्य कथिता नयताऽन्यथा तु ।।१२८४।। सगृह्णतः सकलमेव तु भावराशिं, सत्त्वादिना भवति सङ्ग्रहताऽस्य युक्ता । इष्टः परापरतया द्विविधः स तत्र, सत्त्वादिना सकलगोचर आदिमस्तु ।।१२८५।। शुद्धः स एव कथितोऽन्यनयाप्रवेशाद, द्रव्यार्थिको भवति भेदगुणोऽप्यभेदात् । द्रव्यादिभावमननादपरो निरुक्तो - ऽशुद्धोऽन्यनीतिघटनाच्च तथाविधोऽपि ।।१२८६।। नो सङ्ग्रहे घटपटादिविशेषबुद्धे - झेंपो मतोऽनुभववाधभयाद् बुधानाम् । किन्तु प्रमा भवति सा न विशेषभागे, बाधादिति श्रुतिशिखानुगता वदन्ति ।।१२८७।। अस्तीति सङ्ग्रहनयाभिमतस्तु शब्दः, सत्ताभिधायकतया सकलानुगामी । सत्यार्थको न तु घटादिविशेषशक्तः, कुम्भादिशब्द इति ते प्रतिपादयन्ति ।।१२८८।। यच्चाऽनुगामि ननु सत्यतया मतं तत्, सामान्यतोऽत्र नियमो जनताप्रसिद्धः । सर्पादिबोधविषयेऽनुगता त्विदन्ता, रज्ज्वादिधर्मिणि यथा स्फुटमैक्षि लोकैः ।।१२८९।। सत्त्वं समग्रविषयानुगतं न चैवे - दन्त्वादि तेन मतमत्र तदेव सत्यम् । ब्रह्मस्वरूपमिदमिष्टमतो न चाऽस्मा - ज्ज्ञानं सुखं च प्रविभक्तमनन्यवेद्यम् ।।१२९०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158