Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 124
________________ ॥ श्रीन्यायसिन्धुः ॥ सामान्यमस्य विषयः सविशेषमिष्ट - मन्योन्यसंवलितमेव यथार्थभावात् । तदिनमन्यनयसिद्धमवस्तुभावा - दाभासमस्य तु वदन्ति जिनागमज्ञाः ।।१२२७।। सामान्यमत्र कथितं द्विविधं तु तिर्य - गूर्ध्वत्वभेदभजनादनुगामि रूपम् ।। आद्यं समानपरिणामतया प्रसिद्धं, देशानुगाम्यभिमतं घटतादिनाम ।।१२२८।। द्रव्यस्वरूपमिह जैनमतप्रसिद्धं, कालत्रयानुगतमन्त्यसमानभावात् । तच्चोर्ध्वतेति निजपर्ययमात्रकाला - स्तित्वान्मृदाद्यभिमतं कलशाद्यभिन्नम् ।।१२२९।। षड्द्रव्यविचारः - द्रव्याणि षड् जिनमते प्रथितानि तत्र, यश्चोपयोगगुणवान् स च जीव इष्टः । यः पुद्गलस्तदितरो ननु सोऽत्र रूपा - द्यालिङ्गितोऽभिमत आर्हततत्त्वविद्भिः ।।१२३०।। धर्मास्तिकाय इह जैनमतेऽस्ति लोका - काशस्थितो गमनलिङ्गवलात् प्रसिद्धः । शून्यत्वतो भवति यस्य च नो ह्यलोका - काशे गतिर्गतिमतोऽपि च पुद्गलादे: ।।१२३१।। मीनादयो जलचरा गतिमन्त एव, नैव स्थले जल इव प्रभवन्ति गन्तुम् । तस्माद् यथा जलसहायवशाच्च गन्तुं, शक्तास्तथाऽन्य इह धर्मवशाच्च तेऽपि ।।१२३२।। देशादयस्तु बहवोऽननुगामिभावात् तद्व्यक्तितादित इह प्रभवन्ति नैव । धर्मस्तदर्थकतयैव मतोऽनुगामी, एकोऽप्यशेषगतिमत्सहकारिरूपः ।।१२३३॥ धर्मास्तिकाय इव जैनमते प्रसिद्धो - ऽधर्मास्तिकाय इह तत्समदेशवृत्तिः । स्थित्यर्थता भवति तस्य तदा त्वलोका - काशेऽस्थितिः स्थितिमतां विरहेऽस्य युक्ता ।।१२३४।। कोऽप्यस्ति नो विनिगमो यत एव तस्मा - नाऽऽशक्यमत्र किमु तवयकल्पनेन । एकेन सिद्ध्यति फले विवुधेन किञ्च, मानं परोक्षविषये जिनवाक्यमत्र ।।१२३५।। रूपादियोगविरहाद् गगनादिवन्नो, नेत्रादिना तदुभयोर्मतिरस्ति लोके । युक्त्या द्वयं भवति लोकगतं प्रसिद्धं, जैनागमोऽपि ननु तत्र करोति बुद्धिम् ।।१२३६।। यश्चाऽवगाहनफलोऽभिमतः स एवा - ऽऽकाशाभिधो विभुरनन्तप्रदेशयुक्तः । सर्वाश्रयो भवति साश्रयतावलेन, पक्ष्यादिकेषु निखिलानुगतोऽप्यभिन्नः ।।१२३७।। शब्दो हि पौद्गलिक एव मतो जिनेन, तस्याऽऽश्रितत्ववलतो गगनस्य नैव । सिद्धिस्तु गौतमसुतानुमता परन्तु, ज्ञेया प्रदर्शितदिशा गगनप्रसिद्धिः ।।१२३८।। यद्वर्तनात्मकतया परिणामि तत्त्वं, कालात्मकं भवति तत् तत एव नाऽन्यः । कालोऽत्र गौतमसुतानुमतो विभुस्तु, नित्योऽखिलाधिकरणोऽखिलकार्यहेतुः ।।१२३९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158