Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 122
________________ ॥ श्रीन्यायसिन्धुः ॥ प्रत्येकमेव प्रतिभङ्गमनन्तधर्मे, सत्त्वादिकं भवति वस्तुनि भिन्नभावात् । एकैकनीतिबलतोऽवगतं तु सप्त-भङ्गत्या द्विधा भवति सा निखिलैर्हि भङ्गैः ॥१२०१॥ सकलादेश-विकलादेशविचारः - स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः, स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीयः । स्यात्कारलाञ्छिततनुश्च मतश्चतुर्थो - ऽवक्तव्यकुम्भ इति तत्त्रितयं प्रमाणम् ।।१२०२।। सर्वान् समादिशति वस्तुगतानखण्ड - वस्त्वंशबोधनवलादभिदैकमानात् । एतत् त्रयं न तु सखण्डतदंशवोध - कार्यन्यभङ्गनिकरो विकलस्वभावः ।।१२०३।। इत्यामनन्ति ननु केचिदभङ्गभङ्ग - रूपार्थतत्त्वमननानिपुणाः परं ते । सर्वेऽपि धर्मविधयांऽशतया च भिन्ना, भङ्गेष्वतो न सकलासकलस्वभावौ ।।१२०४।। अंशो ह्यखण्ड इह चेद् यदि सत्त्वरूपः, किं तावता सकलबोधफलोऽस्य भङ्गः । द्रव्यादभेदघटनाबलतो नयाच्चेत्, तत् किं सखण्डमुखतो न तथाऽन्यभङ्गः ।।१२०५।। अंशद्वयस्य घटनाच्च सखण्डरूपा, धर्मा भिदांशमवलम्ब्य प्रकाशमानाः ।। नाऽभेदवृत्तिवलतो मिथ एव भङ्गै - रन्यैः समस्तघटनानुगताः स्फुरेयुः ।।१२०६।। अंशस्त्वखण्ड इह तत्त्वत एव भेदां - शाभानतोऽभिमुखयत्यखिलांशमेव । स्वात्मन्यभेदमननान्निजरूपमात्र - भानात् समग्रविषयोऽपि मतोऽस्य भङ्गः ।।१२०७।। एतन्न युक्तमविकल्पनबोधरूपो - ऽखण्डस्य बोध इह तेऽभिमतोऽन्यथा वा । आद्ये न शाब्दमतिता न च मानताऽस्य, यस्मादुभावपि विकल्पनबोध एव ।।१२०८।। अन्त्ये विकल्पकतया नियतं प्रकारा - द्यालम्बनोऽनुमत एव तवाऽपि सोऽपि । भेदांशगोचरतया निखिलांशबोध - निष्ठो न दर्शितनयादिबलं विना सः ।।१२०९।। वाक्यत्वतो भवति भेदमतिप्रवीणो, नोच्चारणं सफलमस्य विना तथात्वम् । स्यादन्यथैवपदयोजनमर्थवन्नो, भनेऽप्यखण्डविषये ननु भेदभानम् ।।१२१०।। अंशे भवेन्नियमतोऽत्र सखण्डरूपे, ग्राह्यांशयोर्यदि तु भेदमतिस्तदाऽपि । नाऽखण्डधर्मविषयेऽपि निरूपकस्या - ऽवच्छेदकस्य किमु भेदमतिस्तु भङ्गे ।।१२११।। किञ्चांऽशयोर्भवतु भेदमतिस्तथाऽपि, भिन्नोऽश इष्ट इह तवयमेलने यः । नो तस्य भेदमतिरस्ति विभिन्नतोऽशात्, तस्मादभेदमननं किमु नोऽशमात्रे ॥१२१२।। किं वा ययोरपि प्रतीयत एव भेदः, स्वस्वाभिधायकवचःप्रतिपाद्यभावात् । किं नो तयोरपि परस्परमिष्टवस्त्वं - शाभेदतो मतिरभिन्नतया सखण्डैः ।।१२१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158