Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 120
________________ ॥ श्रीन्यायसिन्धुः ॥ धर्मोऽपि नो नियमतः प्रतियोग्यवृत्ति - नास्तित्वसङ्घटनतत्पर आर्हतानाम् । धर्मांशमात्रमवलम्ब्य भवेच्च येन, भने द्वितीय इह वेदनयप्रवेशः ।।११७५।। सद्व्यतादिषु घटादिगतेषु सत्सु, वक्ता विवक्षति यमेव प्रधानभावात् । तेनाऽस्ति कुम्भ इह न त्वविवक्षितेन, नास्तित्वमिष्टमत एव भवेच्च तेन ।।११७६।। नो कल्पनारचित एव विवक्षयाऽस्ति, धर्मो यतो भवतु संवृतिसत्त्वमत्र । वस्त्वंशताश्रयतया स्थित एव धर्मे, स्याद्वादतो विभजना तु विवक्षयैवम् ।।११७७।। इत्थं व्यवस्थित इहाऽऽश्रयकालद्रव्या - वच्छेदकैरपरवस्तुगतैर्द्वितीयः । भङ्गो न वेदनयसम्मत एवमन्या - ऽवच्छेदकत्वमननादथ धर्मतोऽपि ।।११७८।। वस्त्वंशगोचरतया तु यदा प्रसिद्धौ, भङ्गौ तदा न कथमत्र तृतीयभङ्गः । पूर्वप्रदर्शितदिशोभययोगसिद्धो, ह्यशान्तरावगमहेतुरनन्यलभ्यः ।।११७९।। धर्मद्वयस्य युगपत् तु विवक्षितस्य, प्राधान्यतः किमपि नो वचनं यतोऽस्ति । वस्त्वंशतामुपगतस्य चतुर्थभङ्गो - ऽवक्तव्यरूप इह तत्प्रतिपत्तिभेदात् ।।११८०।। नन्वत्र वेदनय आगत आर्हतानां, यस्मादनिर्वचनमिष्टमिदं तु विश्वम् । दृश्यं यथा श्रुतिविदां भवतां तथैव, नो चेद् विशेष इह कोऽपि निरूपणीयः ।।११८१।। नोच्चैरिदं श्रुतिविदा वचनीयमार्हत् - स्याद्वादतत्त्वमनने सकलस्य यस्मात् । इष्टा नयस्य घटना भजनाविदां किं, नैकान्तताऽनभिमता परमत्र तत्त्वात् ।।११८२।। वस्त्वंश एव वचनाविषयत्वमिष्टं, किञ्चाऽत्र जैननयवर्त्मनि तुर्यभङ्गात् । नो वै तथा श्रुतिविदां मतमीदृशं त - न्मिथ्यात्वलक्षणतयाऽनुमतं परन्तु ।।११८३।। तैः सर्वथैव सदसत्त्ववियोगरूपा - वक्तव्यता त्वभिमता ननु मायिकेषु । जैनैः पुनः सदसदात्मकवस्तुनिष्ठा - ऽवक्तव्यता तदतिरिक्ततयैव गीता ।।११८४।। अंशः स चाऽपि वचनीयतया - ऽभ्युपेतोऽवक्तव्यशब्दरचना ननु तत्र यस्मात् । एकान्तवादमनने तु चतुर्थभङ्गो, व्याघाततो नहि भवेदुपदर्शनीयः ।।११८५।। भङ्गत्रयं तदपरं त्वथ पूर्वयोगात्, तुर्यस्य यज्जिनमतं तदपि प्रसिद्धम् । पूर्वप्रसिद्धिबलतोऽधिगतांशभिन्नां - शानां प्रबोधजनकं भजनान्वितं च ।।११८६।। वस्त्वंशगोचरतया प्रतिधर्ममेषा, वस्तुप्ररूपकतयैव विवक्षया वै । तस्मात् स्थिता विधिनिषेधनयोः परेषां, सन्देहनाशनिपुणा ननु सप्तभङ्गी ।।११८७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158