Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 121
________________ ९४ ॥ श्रीन्यायसिन्धुः ॥ धर्मान् समादिशति वस्तुगतानशेषा - नैक्यस्य पर्ययनयादुपचारवृत्त्या । द्रव्यार्थतस्तदपृथक्त्वप्रधानभावा - देषा नयानुगमना प्रतिभङ्गमेव ।।११८८।। कालात्मरूपगुणिदेशफलस्वदेश - संसर्गबन्धवचनैः प्रथिताऽष्टभिः सा । द्रव्यार्थपर्ययनयार्पणतो ह्यभेद - भेदौ प्रधानगुणवृत्तित आदिशन्ती ।।११८९।। कालो य एव खलु वस्तुगतस्य चैक - धर्मस्य सैव तदभिन्नतया परेषाम् । द्रव्यार्थतो भवति तेन समस्तवस्त्वं - शज्ञापकोंऽशविषयोऽपि सदादिभङ्गः ।।११९०।। अस्तित्वनिष्ठमिह यत् खलु धर्मतादि, तन्नास्तितादिगतमात्मसमानभावात् । द्रव्यार्थतो भवति तद्गुणताऽविशिष्टा, धर्मेष्वभेदत इतोऽपि समग्रबोधः ।।११९१।। एकस्य यस्तु गुणिदेश इह प्रसिद्धो - ऽन्येषां स एव गुणिदेशसमानभावात् । द्रव्यार्थतो भवति चैकमुखेन भङ्ग, एकोऽप्यशेषघटनावगतिप्रवीणः ।।११९२ ।। यत् स्वानुरागकरणं फलमेकधर्मा - दत्राऽस्ति धर्मिणि तदेव विशेषणत्वात् । धर्मान्तराच्च सकलस्य फलैक्यभावाद्, द्रव्यार्थतोऽवगमकोऽभिदयैकभङ्गः ।।११९३।। एकस्य देश इह यो निखिलस्य सैव, द्रव्यार्थतो भवति देशसमानभावात् । धर्मेषु चैक्यमत एकमुखेन सर्वा - नेकोऽपि बोधयति भङ्ग इति प्रमाणम् ।।११९४।। संसर्ग इष्ट इह यो निजदेशतो वै, एकस्य सैव निखिलस्य तदेकभावात् । द्रव्यार्थतो निखिलधर्ममतिप्रवीण, एकोऽपि दर्शितदिशाऽभिदयैव भङ्गः ।।११९५।। सम्बन्ध एवमिह वस्तुगतः सदादे - रेकस्य यो भवति सैव परस्य नाऽन्यः ।। द्रव्यार्थतो जिननयेऽभिदया प्रधाना - देकोऽपि सर्वघटनागमकोऽत्र भङ्गः ।।११९६।। संसर्गतो भवति यद्यपि नाऽस्य भेदा - भेदात्मकत्वसमभावतयाऽत्र भेदः । भेद: प्रधान इह नैव परन्त्वभेदः, किं तावता भवति नैव तथाऽपि भेदः ।।११९७।। यश्चाऽस्तिशब्द इह सत्त्वविशिष्टरूपे, इष्टः स एव निखिलात्मनि तत्र शक्तः । द्रव्यार्थतो वचनशक्तिसमानभावा - देकोऽपि चैकमुखतो निखिलेषु भङ्गः ।।११९८।। पर्यायनीतिबलतोऽप्युपचारतोऽत्र, तैरष्टभिश्च प्रतिभगमनन्तभेदान् । साऽभेदतत्त्वमवलम्ब्य प्रमाणसप्त - भङ्गी समादिशति चैकमुखेन धर्मान् ।।११९९।। तैरष्टभिर्भवति भेदप्रधानभावात्, पर्यायनीतिबलतो यदि मुख्यवृत्त्या । द्रव्यार्थतस्तदुपचारबलात् तदा तु, सा नीतिजैकमुखतो न समग्रनिष्ठा ।।१२००१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158