Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 118
________________ ॥ श्रीन्यायसिन्धुः ॥ बाधां विनैव न च सत्त्वमतिर्नयज्ञै - ौन्तेति बोधविषयोऽभ्युपगन्तुमिष्टा । तस्मादवश्यमवलम्व्य यथार्थमर्थ - मेषोद्गतेति सकलप्रतिपन्नमेतत् ।।११४९।। उक्तेषु सत्त्वनिकरेषु यदाऽस्ति दोषः, सत्त्वं तदा भवतु किं न च तैर्विभिन्नम् । स्यादस्ति भङ्गविषयो न ततस्तृतीयः, पक्षोऽपि मान्य इह तत्त्वपरीक्षकाणाम् ।।११५०।। पक्षश्चतुर्थ इह चेद् यदि वाद्यभीष्टः, सामान्यतो भवति किं तदवाच्यमत्र । किं वा विशेषत इति प्रथमो न युक्तः, सत्त्वादिशब्द इह तत्प्रतिपादको यत् ।।११५१।। अन्त्ये विशेषवचनाप्रतिपादनेऽपि, क्षीरादिगा मधुरतेव न तस्य लोपः । विध्यात्मता घटपटादिकवस्तुरूप - मग्नाऽस्तिशब्दत इहाऽभिमता जिनानाम् ।।११५२।। वस्तूच्यते विधिनिषेधकरम्वितं झै - रंशाविमौ तु भवतोऽस्य निजस्वरूपौ । स्यात्कारयोजनबलादविरोधतस्तौ, भङ्गद्वयेन प्रथितौ भवतो नयज्ञैः ।।११५३।। वस्त्वंशवोधकतयाऽभिमतास्तु भङ्गा, अन्येऽपि वस्त्ववगतिस्त्विह सप्तभङ्गया । नो गौतमादिमततोऽप्यविशेषताऽत्र, वस्त्वंश एव ननु वस्तुतया मतस्तैः ।।११५४।। आपेक्षिके यदि तु वस्तुगतेंऽशमात्रे - ऽवच्छेदकत्वमपि तस्य तदा त्वपूर्वम् । द्रव्यादिगं प्रमितितोऽवगतं तदेव, नो तार्किकादिभिरभीष्टमनन्यसिद्धम् ।।११५५।। तैर्जात्यखण्डसमभावविभिन्नमात्रे - ऽवच्छिन्नतानियममात्रबलाद् घटादौ । सामान्यमभ्युपगतं ननु वृत्तिताद्य - वच्छेदकं न तु जिनाभिमतं तदेव ।।११५६।। अव्याप्यवृत्तिघटना ननु यादृशस्या - ऽवच्छेदकस्य मननादभिमन्यते तैः । अस्तित्वधर्मभजनाऽपि च तादृशेना - ऽवच्छेदकेन प्रथिता जिनसम्प्रदाये ।।११५७।। तैः किन्तु देशसमयद्वयमात्रमेवा - ऽवच्छेदकं प्रथितमीदृशमार्हतैस्तु । धर्मादयोऽप्यभिमता अनुभूतिसिद्धा, एतादृशा इति कथं मतयोर्न भेद: ।।११५८।। वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा - ऽस्तित्वं तदाऽपि न च दोषगणप्रचारः । तद्वृत्तिता भवति तेन निरूपिताऽप्य - वच्छेद्यभावनियताऽनुमता परैस्तु ।।११५९।। व्याप्तिस्वरूपमननावसरे हि सार्व - भौमैः प्रदर्शितमिदं वचनान्तरेण । तद्युक्तितो भवति देश इव स्वकाले, वृत्तित्वमस्तिपदवाच्यमदुष्टमेव ।।११६०।। उत्पत्त्यवस्थितिलयात्मकताऽपि सत्ता, स्यादस्तिता यदि तदाऽपि न दोषपङ्कः । एकक्षणे त्रितयमस्ति विभिन्नधर्मः, प्रत्येकशः समुदयात् तु निरुक्तरूपैः ।।११६१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158