Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 116
________________ ॥ श्रीन्यायसिन्धुः ॥ स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः, स्वद्रव्यभावसमयाश्रययोगतः सः । स्यानास्ति कुम्भ इति योऽभिमतो द्वितीयो - ऽन्यद्रव्यभावसमयाश्रयसंश्रयात् सः ।।११२३।। स्यादस्ति नाऽस्ति च घटोऽभिमतस्तृतीयो, भङ्गः क्रमादुभययोगनिरूपकाभ्याम् । तद्धर्मयोर्विधिनिषेधनयोर्विवक्षा - वैचित्र्यतोऽत्र परप्रश्नवशाच्च युक्तः ।।११२४।। यत्रोभयोर्युगपदेव भवेद् विवक्षा - ऽवक्तव्य एव घट इत्यपरानुयोगात् । भङ्गश्चतुर्थ उभयोश्च निरूपकाभ्यां, स्यात्कारलाञ्छिततनुर्ननु तत्र बोध्यः ।।११२५।। भङ्गत्रयेण सह प्रश्नविशेषतस्तु, तुर्यस्य सङ्घटनतोऽत्र भवन्ति भङ्गाः । अन्त्ये त्रयो निजनिरूपकभेदयोगैः, प्रत्येकशी जिनसुताभिमता विविक्ताः ।।११२६।। तुर्यस्य चाऽऽद्यघटनान्ननु पञ्चमः स्यात्, षष्ठो द्वितीयघटनात् तु मतो जिनानाम् । भङ्गो मतस्त्विह तृतीयविमिश्रणेन, ज्ञैः सप्तमो न च ततोऽप्यधिकोऽस्ति भङ्गः ।।११२७।। यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो, भङ्गस्तृतीय इति तेन भवेन्न भिन्नः । अन्यस्य सङ्घटनतः पुनरुक्तता स्यात्, सिद्धोऽथवा भवति भङ्ग इतीष्यते नो ।।११२८।। स्यादव्ययं पदमतो यदि नोक्तिरस्या - ऽनेकान्ततावगमकस्य तदोक्तभङ्गाः । सत्त्वादिकं घटपटादिगतं यथा स्वै - द्रव्यादिभिः परगतैश्च तथा वदेयुः ।।११२९।। कुम्भादिकस्य निजरूपहतिश्च तत्त्वे, सर्वात्मता भवतु वा न ततो व्यवस्था । स्याच्छब्दसङ्घटनतस्तु कथञ्चिदेव, सत्त्वादिकावगमका न तु सर्वथा ते ॥११३०।। यत् सत्त्वमत्र निजधर्मवशात् तदेवा - ऽसत्त्वं परैरिति भवेत् प्रथमान्न भिन्नः । भङ्गो द्वितीय इति तन्नियता न चाऽन्ये, भङ्गा इहेति सुगतानुगताः पठन्ति ।।११३१।। तेषां कथं निजमतक्षतितो न भीती, रूपत्रयं भवति लिङ्गगतं न यस्मात् । तत्राऽपि साध्यवति यद् गमकस्य सत्त्वं, तत् स्याद् विपक्षगणतो नियमादसत्त्वम् ।।११३२।। किञ्चैकता यदि तु भावनिषेधयोः स्या - न स्यात् प्रवृत्तिरिह नैव निवर्तनं तत् । भावो यतो न च निषेधविभिन्नरूपो, नो वा निषेध इह भावविभिन्नरूपः ।।११३३।। कुम्भोऽयमित्यवगतेस्तु प्रवृत्तिरिष्टा, सत्त्वे तु सा भवितुमर्हति न त्वसत्त्वे । कुम्भो न चाऽयमिति बुद्धिवलानिवृत्ति - रेकान्तसत्त्वमनने न भवेच्च तद्वत् ।।११३४।। अव्याप्यवृत्तिविषयोपगमे तु युक्ता - ऽवच्छेदकस्य नियतस्य सदादिभावे । संयोजना विधिनिषेधनयोर्विरोध - रक्षार्थमत्र न तु तद्विपरीतपक्षे ।।११३५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158