Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 114
________________ ॥ श्रीन्यायसिन्धुः ॥ इच्छैव तार्किकमता समयाभिधाना, नेशस्य सा त्विह हि जैमिनिसंश्रितानाम् । शब्दात् तथा सति भवेन्नहि शाब्दवोधः, किन्त्वस्मदादिसदृशस्य भवेत् तथा च ।।१०९७।। शब्दोऽर्थबोधकतया पुरुषेण यद्वत्, सङ्केतितस्तदिव तद्गमकत्वतश्चेत् ।। सङ्केतितोऽर्थ इह तर्हि विपर्ययेण, स्याद् वाच्यवाचकघटा न तयोर्मता किम् ।।१०९८।। नाऽस्मन्मते भवति पर्यनुयोगयोगः, शक्त्या व्यवस्थितिघटाप्रसरोऽस्ति यस्मात् । शब्दार्थहेतुबलतो जननं च तस्याः, शक्तिद्वयात्मकतया न विरोधमेति ।।१०९९।। " प्रत्येकशोऽपि पटकुम्भमठदिशब्दाः, शक्ता घटादिषु पदार्थकदम्बकेषु । स्वव्यञ्जकैस्तु समयैर्नियतार्थनिष्ठैः, स्युस्तेऽपि तन्नियतबोधविधानदक्षाः ।।११००।। एतेन शक्तिरिह वास्तविकी घटादि - शब्दस्य ते यदि घटादिषु तर्हि न स्यात् । एकस्य भिन्नसमयेन विभिन्नदेश - माश्रित्य भिन्नविषयत्वमिति प्रभग्नम् ।।११०१।। सामान्यमात्रमथ जैनमते न शक्यं, नो वा विशेष उभयात्मकमेव वस्तु । स्याद्वादतश्च शबलात्मकमेकतादे - नों तत्र दोषघटना सुगतानुगानाम् ।।११०२।। शब्दा विकल्पजनने निपुणा न चाऽत्र, वस्तुस्वलक्षणमपि प्रभवोऽभिधातुम् । दृश्यं स्वलक्षणमतो न विकल्पभास्यं, शक्तिग्रहोऽपि न च तत्र भवेद् विकल्पात् ।।११०३।। किञ्चाऽनुगाम्यपि न तत् तत एव तत्र, सङ्केतसंस्करणमप्यफलं प्रतीमः । एवं क्षणैकनियते ग्रहसव्यपेक्षो, दुःशक्य एव समयः स्थिरपक्षबाधात् ।।११०४।। सामान्यमेकमपि न प्रमितं विकल्प - ग्रासान्न वृत्तिरपि तस्य भवेत् क्वचित् तु । अर्थक्रियाऽपि मतितो न भवेद् विभिन्ना, किञ्चाऽस्य तेन समयः फलवान्न चाऽत्र ।।११०५।। प्रत्येकपक्षपरिदर्शितदोषजालो, यस्माद् भवेदुभयपक्षगतस्ततो न । स्यात् तद् द्वयं च निरुपद्रवमत्र वाच्यं, नो वाचकं भवति वस्तु तथैव नीत्या ।।११०६।। शब्दार्थयोर्भवति कोऽपि न तात्त्विकः सं-सर्गो यतो भवतु तेन मतिश्च तस्य । इष्टः स चेद् भवति तर्हि स जन्यभाव - स्तादात्म्यरूप उत वा नहि तात्त्विकोऽन्यः ।।११०७।। अन्त्येऽर्थरूप इह ते यदि शब्द इष्टः, कण्ठदितो नहि तदाऽस्य भवेत् प्रवृत्तिः । कियाऽर्थपूरितमिदं भुवनत्रयं स्या - च्छब्दप्रपूरितमहर्निशमेव तस्मिन् ।।११०८।। .. प्रत्यक्षबाध इह दुर्धर एव दोषो, दण्डादितो घट इवाऽत्र न तस्य शब्दः । नो चक्षुषा घटविलोकनकाल एव, तद्वाचकं च ननु पश्यति कोऽपि जन्तुः ।।११०९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158