Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 113
________________ ८६ शब्दे तु मानवचनं नहि मुख्यवृत्त्या, किन्तूपचारबलतो जनताप्रसिद्धम् । यस्मादनिन्द्यमुपयोगगतं प्रमाण त्वं नाऽन्यनिष्ठमिति जैनमतप्रसिद्धम् ||१०८५ || - वाच्यं यथास्थितमबाधितमेव बुद्ध्वा ज्ञानानुसारिवचनं य इहाऽभिधत्ते । आप्तः स एव वचनं च तदुक्तमेवा शब्दपौद्गलिकत्वविचारः भेदादलौकिक इहाऽभिमतो जिनादिः । आप्तो द्विधा भवति लौकिकतद्विभिन्न पित्रादिको भवति लौकिक आप्तवाक्यो क्त्या नित्यशब्दमतखण्डनमिष्टमत्र || १०८७ ।। शब्दार्थसम्बन्धविचारः - Jain Education International - - - तत्खण्डनं प्रथममेव तु मानसामा न्यस्याऽभिधानसमये कृतमत्र युक्त्या । जन्योऽपि वर्ण इह पौद्गलिको जिनाना - मिष्टो न गौतमसुताभिमतो गुणात्मा || १०८८ || निःस्पर्शतानिबिडदेशप्रवेशितादेः, पूर्वोत्तरावयवदर्शनशून्यतातः । चेत् सूक्ष्ममूर्तचलनाननुकूलतातः, शब्दो न पौद्गलिक इत्यतिमन्दमेव ।। १०८९।। आद्ये सिद्धिघटनामल एव हेतौ वाग्वर्गणाधिकरणं न तु खं च कादेः । स्पर्शाश्रयाश्रिततया तदभावरूपो, निःस्पर्शतापदमतो न च हेतुरत्र ।। १०९० ।। स्पर्शाश्रयत्वमनुमामतितः प्रसिद्धं, शब्दाश्रयेऽनुपवनप्रतिकूलवातैः । दूरस्थसन्निहितदेह्युपलम्भभावा भावाश्रयाश्रयतया तु मृगाण्डवद् वः ||१०९१।। अर्हद्वचः प्रमितमेव जिनानुगानां, स्पर्शाश्रयत्वमिह नाऽनुमया प्रसाध्यम् । आप्तागमे स्फुरति को जडबुद्धिभिन्नो, मानान्तराश्रयणतत्पर ईक्षितो ज्ञैः ||१०९२ ॥ हेतुर्द्वितीय इह नाऽव्यभिचारिरूपो, गन्धाश्रयेण ननु यद्व्यभिचारिताऽस्य । सौदामिनीप्रभृतिभिश्च तथा तृतीयो, धूमेन तुर्य इह किं न तथैव दुष्टः ।। १०९३ ।। शब्दे भवेत् खगुणता यदि तर्हि तेन, स्यात् तस्य पौद्गलिकताविरहप्रसिद्धिः । रूपादिवन्न खगुणो बहिरिन्द्रियेण ग्राह्यत्वतो भवति चर्मदृशां तु शब्दः ||१०९४ ।। रूपादिवद् भवति पौद्गलिकस्तु शब्दो, बाह्येन्द्रियग्रहणता न तमन्तरेण । आकाशसिद्धिरवगाहनहेतुभावा ज्जैनागमे न तु तदाश्रिततादिसिद्ध्या ।।१०९५।। - - ऽसंवादिताविरहतो भवति प्रमाणम् ||१०८६|| ॥ श्रीन्यायसिन्धुः ॥ - - स्वाभाविकार्थगमिका ननु शक्तिरर्थे, शब्दस्य सा समयतोऽवगताऽत्र हेतुः । सङ्केतमात्रबलतोऽर्थप्रकाशको न, शब्दो न वाऽर्थरहितः सुगतप्रसिद्ध्या ||१०९६।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158