Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 117
________________ ॥ श्रीन्यायसिन्धुः ॥ सत्त्वं तथा च सुगतादिमते घटादे - रेकान्ततः सकलधर्मवलात् प्रसक्तम् । किं वा ह्यसत्त्वमनयोर्नहि पक्षयोस्तु, वृत्तिनिवृत्तिरुत वा विषयापहारात् ।।११३६।। नन्वस्तिता यदि तु तार्किकगोत्रसिद्धा, सत्तात्मिका तव मता परजातिरत्र । सा व्याप्यवृत्तिकतयैव कथं करोत्व - वच्छेदकस्य नियतस्य तदा व्यपेक्षाम् ।।११३७।। स्वस्मिन्न सा न च तथाऽन्यसमानभावे - ष्वस्तित्वबुद्धिरपि तत्र कथं घटेत । उत्पत्त्यवस्थितिलयत्रितयस्वरूप - मस्तित्वमिष्टमथ चेत् स्वमतावलम्बात् ।।११३८।। नो तर्हि युज्यत इदं त्रितयं घटत्वा - घेकैकधर्मबलतो न मतं यतस्ते । यस्मात् त्रयोऽपि मिथ एव विरोधशीला, एकत्र धर्मिणि विना न विभिन्नधर्मः ।।११३९।। वृत्तित्वमिष्टमथ कालनिरूपितं ते - ऽस्तित्वं तदा स यदि तार्किकगोत्रमान्यः । सिद्धान्तभङ्ग इह तर्हि महाननर्थो, दोषः पतेत् त्वयि भवेच्च न कालगं तत् ।।११४०।। स्याद् वर्तनात्मकतया निजतन्त्रसिद्धः, कालस्तथाऽपि न च स व्यतिरिक्तरूपः । किन्त्विष्यते नवपुराणतयोपलभ्य - मानो घटादिरिति ते न निजात्मनिष्ठाः ।।११४१।। सा वृत्तिताऽधिकरणात्मकदेशतोऽथा - ऽभीष्टाऽस्तिता तव बुधाग्य ! निरूपिता या । द्रव्येष्वनंशिषु तदा न च तस्य योगो, यस्मादनाश्रिततया प्रमितानि तानि ।।११४२।। स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे - ष्वस्तित्वमिष्टमिह तन्न भवेच्च युक्तम् । क्षेत्रं यतोऽधिकरणापरनामधेयं, स्वापेक्षमेव न भवेनिजवृत्तितायाम् ।।११४३।। अस्तित्ववान् घट इहाऽभिमतो घटत्वाद्, यैस्तेऽक्षपादमत दर्शित एव मार्गः । स्यात्कारशब्दबलतोऽपि न चाऽऽद्यभङ्गे, एकान्ततत्त्वमननादधिकं प्रविष्टम् ।।११४४।। यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो, वेदान्तिदर्शनमतादधिको न सोऽपि । वेदान्तिभिर्ननु पटादिसमानधर्मैः, कुम्भाश्रयत्वविरहो घटवत्यपीष्टः ।।११४५।। भङ्गद्वये प्रतिहते न भवन्ति चाऽन्ये, भङ्गा यतस्तदुभयाश्रयणात् प्रवृत्ताः । इत्यादिकं जिनमतानवबोधलब्धं, ध्यान्ध्यं परे प्रकटयन्ति कुमार्गगत्या ।।११४६।। पूर्वप्रदर्शितविकल्पभरैः किमिष्टं, सत्त्वादिकं घटगतं न प्रतीयते वा । नाऽव्याप्यवृत्ति किमु वा न च दर्शितार्थ - भिन्नस्वरूपमथवा तदवाच्यमेव ।।११४७।। आद्यः समस्तजनसिद्धप्रतीतिलोप - भीत्यैव नो बुधवरैः समुपासनीयः । आदानहानविषयौ भवतो न यला - वेकान्ततत्त्वमनने न ततो द्वितीयः ।।११४८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org:

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158