Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
________________
॥ श्रीन्यायसिन्धुः ॥
तत्राऽन्यकारणसमग्रसमन्वितः सन् हेतुर्न कार्यजननेऽनियतोऽत्र यस्मात् । तत्कारणं भवति कार्यमतिप्रवीणं, बौद्धैर्न किं तदपि दर्शितमस्ति शास्त्रे ||१०७२ | रात्रौ रसादनुमितिर्ननु तैर्निरुक्ता, रूपस्य सा भवति हेत्वनुमाप्रणाल्या । यस्मात् तयोः समसमूहसमन्वयेन, तैरेव तुल्यजनकोद्भवता मता च ॥ १०७३ ।। धूमाद्धुताशनमतिस्त्विह कार्यलिङ्गाद्, व्याप्यात् तथा भवति सत्त्वमतिर्गुणादिः । छायादितोऽवगतिरेवमनोकहादे - र्नो तुल्यकालगतयोरिह कार्यतादेः || १०७४ ।। या कृत्तिकोदयबलाच्छकटानुमास्ति, पूर्वाच्च सा सहचरान्न च बौद्धहेतोः । या चाऽनुमा शकटतो ननु कृत्तिकायाः, साऽप्युत्तरात् सहचरान्न तु कार्यलिङ्गात् ।।१०७५।।
या निश्चितात् सहचरादनुमा रसादे, रूपान्न सा सुगतनिश्चितहेतुमात्रात् । तस्माद् विधिप्रवण उक्तदिशा निरुक्तः, सर्वोऽविरुद्ध इह नो द्वयमेव बौद्ध ! ||१०७६ || अन्त्यो विरुद्ध इह सप्तप्रकारकोऽस्ति, तैः स्यान्निषेधविषयाऽनुमितिस्ततश्च । बौद्धैस्त्वभावविषयानुपलब्धिमात्राद्, या सम्मताऽनुमितिरत्र न सैव मान्या ||१०७७ || साक्षाद् विरुद्ध इह चाऽऽद्यप्रकार इष्टः, स्याद्वाद आर्हतमतो ननु दुर्नयानाम् । एकान्तवादनिकरप्रतिषेधवोधो, यस्मात् ततो भवति तत्त्वप्रबोधहेतुः ॥ १०७८।। अन्ये विरुद्धजनकादिविभेदतः स्युः, पूर्वप्रदर्शितदिशा षडिति प्रधार्यम् । हेतुस्तथाऽऽर्हतमतेऽनुपलब्धिरूपो, द्वैविध्यवान् विधिनिषेधमतिप्रवीणः || १०७९॥ तत्राऽविरुद्धविषयानुपलब्धिहेतुः स्याद् यस्य तस्य स निषेधमतौ समर्थः । अन्यो विरुद्धविषयानुपलब्धिरूपो, हेतुर्विधायकतयाऽभिमतो जिनानाम् ||१०८०।। ज्ञेयः स्वभावसहकालिकपूर्वकाल - पाश्चात्यकार्यजनकाधिकवृत्त्यभावैः ।
आद्यो निषेध्यविषयस्य तु सप्तभेदो, हेतुर्निषेधगमको मत आर्हतेऽस्मिन् ॥१०८१॥ इष्टः स्वभावसहकालिकहेतुकार्य - न्यूनाश्रयापगमभेदत आर्हतानाम् । अन्त्यो विरुद्धविषयस्य तु पञ्चभेदो, विध्यङ्गतापरिगतोऽनुपलव्धिहेतुः || १०८२ ।। दृष्टान्ततः स्वयमिहाऽऽकलयन्तु विज्ञा, भेदान् विशेषविषयान् ननु किञ्च वादे । बौद्धान् स्वभावनियतानुपलब्धिहेतु - प्रोक्तृन् जयन्तु भजनानियतप्रकारैः || १०८३॥ आगमप्रमाणनिरूपणम्
,
स्यादाप्तवाक्यजनितोऽन्वयबोधनामा, व्याप्त्यादिबोधविरहेऽपि च जायमानः । मानान्तरत्वनियतोऽननुमादिधीत्वात्, वैशेषिकाविहत आगम आर्हतानाम् || १०८४||
Jain Education International
For Private & Personal Use Only
८५
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158