Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 110
________________ ॥ श्रीन्यायसिन्धुः ॥ या चाऽत्र दोषघटना ननु तैरभीष्टा, सर्वाऽपि साऽनुमितिबोधगताऽपि तेषाम् । तद्दोषखण्डनप्रकारगतेस्तु तत्रा - ऽऽदिष्टोहगाऽपि सकला परिभावनीया ।।१०४७।। अनुमाननिरूपणम् - स्याल्लिङ्गबुद्धिनियमस्मृतितोऽनुमानं, साध्यावभासकमिदं द्विविधं च तत्र । स्वार्थं स्वतो भवति यद् वचनं परार्थं, लिङ्गादिकस्य तु भवेदुपचारतस्तत् ।।१०४८।। लिङ्गस्य लक्षणमिहाऽनुपपत्तिरेव, साध्यं विना न तु पराभिमतं त्रिकादि । यस्मात् त्रिलक्षणयुतोऽपि भवेन्न हेतु - स्तामन्तरेण गमकः सुगतानुगानाम् ।।१०४९।। साध्यं त्वबाधितमभीप्सितमप्रतीत - मिष्टं न चाऽन्यदिह लक्षणमस्य युक्तम् । धूमादिना भवति यत्र तु वह्रिसिद्धि - धर्मी स एव ननु पक्षपदाभिलप्यः ।।१०५०।। नो गौतमानुमतमत्र मतं च साध्य - व्याप्यस्य पक्षघटनामननं तृतीयम् ।। हेतुत्वतो भवति किन्तु विनाऽपि तेन, द्वाभ्यां प्रदर्शितदिशाऽनुमितेर्हि जन्म ।।१०५१।। धर्मिप्रसिद्धिरिह जैनमतानुगानां, मानाद् यथा खलु विकल्पमतेस्तथैव । धर्म्यप्रसिद्धिरत एव जिनागमज्ञै - र्दोषत्वतो नहि मता परतन्त्रसिद्धा ।।१०५२।। ये न्यायशब्दत इहाऽभिमता प्रतिज्ञा - हेत्वादयः त्ववयवाः परबुद्धिहेतुः । उद्भावनं जिनमते प्रथितं च तेषां, सामस्त्यतः क्वचिदिह क्वचिदन्यथाऽपि ।।१०५३।। विज्ञः परो यदि तदा ननु हेतुरेव, वाच्यो यतोऽनुमितिरस्य तु तावतैव । व्याप्तिस्मृतेर्जडमतिस्तु परो यदि स्यात्, सर्वेऽपि तस्वयवाः प्रतिपादनीयाः ।।१०५४।। एतेन बुद्धकपिलादिसुतोपगीत - मेकान्ततोऽत्र नियतावयवात्मकस्य । न्यायस्य वाद उपदर्शनमस्तमेषु, न्यूनादिनिग्रहभवोऽपि महाननर्थः ।।१०५५।। गौणं परार्थमनुमानमवैति विद्वान्, लिङ्गादिकावयवकीर्तनमत्र तद्वत् । स्वाध्यक्षगोचरपदार्थमतिप्रवीणं, प्रत्यक्षमप्यथ परार्थमवैति वाक्यम् ।।१०५६।। पश्योदयाचलगतं रविबिम्बमङ्ग, पश्याऽस्तपर्वतगतं शशिबिम्बमेवम् । वाक्यं परार्थमुदितं जिनतन्त्रविज्ञा, अध्यक्षमेव गुणतः समुदाहरन्ति ।।१०५७।। पूर्वं निजस्मृतिपथं समुपागतेऽथ, मेये परस्मृतिकृते वचनं परार्थम् । उक्तं बुधैः स्मरणमेव तु गौणवृत्त्या, मानान्तरेष्वपि च तत् स्वयमूहनीयम् ।।१०५८।। वस्त्वागमे सदसदंशतया जिनानां, सिद्धं द्विरूपमनुमाजनकं च तस्य । लिङ्गं द्विधा विधिनिषेधप्रथाप्रवीण - मुक्तं बुधैस्तदुपलम्भतदन्यभेदात् ।।१०५९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158