________________
॥ श्रीन्यायसिन्धुः ॥
या चाऽत्र दोषघटना ननु तैरभीष्टा, सर्वाऽपि साऽनुमितिबोधगताऽपि तेषाम् ।
तद्दोषखण्डनप्रकारगतेस्तु तत्रा - ऽऽदिष्टोहगाऽपि सकला परिभावनीया ।।१०४७।। अनुमाननिरूपणम् -
स्याल्लिङ्गबुद्धिनियमस्मृतितोऽनुमानं, साध्यावभासकमिदं द्विविधं च तत्र । स्वार्थं स्वतो भवति यद् वचनं परार्थं, लिङ्गादिकस्य तु भवेदुपचारतस्तत् ।।१०४८।। लिङ्गस्य लक्षणमिहाऽनुपपत्तिरेव, साध्यं विना न तु पराभिमतं त्रिकादि । यस्मात् त्रिलक्षणयुतोऽपि भवेन्न हेतु - स्तामन्तरेण गमकः सुगतानुगानाम् ।।१०४९।। साध्यं त्वबाधितमभीप्सितमप्रतीत - मिष्टं न चाऽन्यदिह लक्षणमस्य युक्तम् । धूमादिना भवति यत्र तु वह्रिसिद्धि - धर्मी स एव ननु पक्षपदाभिलप्यः ।।१०५०।। नो गौतमानुमतमत्र मतं च साध्य - व्याप्यस्य पक्षघटनामननं तृतीयम् ।। हेतुत्वतो भवति किन्तु विनाऽपि तेन, द्वाभ्यां प्रदर्शितदिशाऽनुमितेर्हि जन्म ।।१०५१।। धर्मिप्रसिद्धिरिह जैनमतानुगानां, मानाद् यथा खलु विकल्पमतेस्तथैव । धर्म्यप्रसिद्धिरत एव जिनागमज्ञै - र्दोषत्वतो नहि मता परतन्त्रसिद्धा ।।१०५२।। ये न्यायशब्दत इहाऽभिमता प्रतिज्ञा - हेत्वादयः त्ववयवाः परबुद्धिहेतुः । उद्भावनं जिनमते प्रथितं च तेषां, सामस्त्यतः क्वचिदिह क्वचिदन्यथाऽपि ।।१०५३।। विज्ञः परो यदि तदा ननु हेतुरेव, वाच्यो यतोऽनुमितिरस्य तु तावतैव । व्याप्तिस्मृतेर्जडमतिस्तु परो यदि स्यात्, सर्वेऽपि तस्वयवाः प्रतिपादनीयाः ।।१०५४।। एतेन बुद्धकपिलादिसुतोपगीत - मेकान्ततोऽत्र नियतावयवात्मकस्य । न्यायस्य वाद उपदर्शनमस्तमेषु, न्यूनादिनिग्रहभवोऽपि महाननर्थः ।।१०५५।। गौणं परार्थमनुमानमवैति विद्वान्, लिङ्गादिकावयवकीर्तनमत्र तद्वत् । स्वाध्यक्षगोचरपदार्थमतिप्रवीणं, प्रत्यक्षमप्यथ परार्थमवैति वाक्यम् ।।१०५६।। पश्योदयाचलगतं रविबिम्बमङ्ग, पश्याऽस्तपर्वतगतं शशिबिम्बमेवम् । वाक्यं परार्थमुदितं जिनतन्त्रविज्ञा, अध्यक्षमेव गुणतः समुदाहरन्ति ।।१०५७।। पूर्वं निजस्मृतिपथं समुपागतेऽथ, मेये परस्मृतिकृते वचनं परार्थम् । उक्तं बुधैः स्मरणमेव तु गौणवृत्त्या, मानान्तरेष्वपि च तत् स्वयमूहनीयम् ।।१०५८।। वस्त्वागमे सदसदंशतया जिनानां, सिद्धं द्विरूपमनुमाजनकं च तस्य । लिङ्गं द्विधा विधिनिषेधप्रथाप्रवीण - मुक्तं बुधैस्तदुपलम्भतदन्यभेदात् ।।१०५९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org