________________
८२
॥ श्रीन्यायसिन्धुः ॥ सामान्यधर्मविरहात् स्थिरवस्त्वभावा - नेदं प्रमाणमिति बुद्धसुता वदन्ति । सामान्यसिद्धिबलतः स्थिरसाधनाच्चा - ऽभिज्ञाप्रमाणमिति जैनकुलोद्भवास्तु ।।१०३४।। किञ्चैकताभ्रमनिमित्तमवश्यमेभिः, सादृश्यमभ्युपगतं क्षणिकेषु तत्र । सादृश्यमस्ति यदि तर्हि प्रमाणमेवा - ऽभिज्ञा भवेत् सदृशवस्त्ववगाहिनी यत् ।।१०३५।। सादृश्यमेषु यदि नैव विलक्षणेषु, भावेषु तेऽभिमतमस्ति तदाऽप्यभिज्ञा । मानं विलक्षणतयाऽणुसमूहमेव, यस्मात् प्रकाशयति तेऽपि मते बुधाग्य ! ।।१०३६।। नो वै विलक्षणतयाऽप्यणवो मतास्ते, ते सम्मताः प्रचयमात्रतयैव विद्वन् ! । मानं तथाऽपि प्रचयाल्पमहत्वभासा - ऽभिज्ञा कथं न तव सङ्कलनास्वरूपा ।।१०३७।। नीलादिरूपमणुमात्रमथाऽभिधत्से, तद्पताऽप्यणुगतोपगता किमर्थम् । वैचित्र्यतो मतिगताद् यदि वा मता सा, पूर्वोक्तधर्मघटनाऽपि न किं तथैव ।।१०३८।। स्याद् वासनैव सदृशादिधियोऽनुकूला, नीलादिबुद्धिरपि किं न तयैव ते स्यात् । चित्रा तु सा विषयमन्तरतो मता चेत्, सर्वाऽपि धर्मघटना तव तर्हि मान्या ।।१०३९।। केशादिवस्तुविषया यदि न प्रमाणं, नैतावता भ्रममतिः सकलाऽप्यभिज्ञा । अध्यक्षमेकमनृतं द्विसुधांशुभासं, दृष्टं समग्रमपि तन्न तथैव सिद्धम् ।।१०४०।। यद् दृष्ट्यदृष्टिजनितं नियमस्य साध्य - हेत्वोस्त्रिकालगतयोरवगाहि तत् स्यात् । तर्कप्रमाणमिदमत्र न तं विना स्या - दित्यादिरूपमनुमाप्रमितौ समर्थम् ।।१०४१।। शब्दार्थयोरपि भवेदत एव मानात्, सामस्त्यतोऽवगत आहेतसम्प्रदाये । संसर्ग आप्तवचनोद्भवबोधहेतुः, स्यात् कार्यताधवगमोऽप्यत एव मानात् ।।१०४२।। सामान्यलक्षणमलौकिकसन्निकर्ष, नैवाऽऽमनन्ति चरितार्थमनेन जैनाः । बौद्धाः कुतर्करसिका हतबुद्धयस्तु, नेच्छन्ति तर्कमिह मानतया प्रसिद्धम् ।।१०४३।। तेषां मते घटपटाद्यपि नैव सिद्ध्ये - न्मानं विना नहि प्रमेयगतिः प्रसिद्धा । संवादलिङ्गजनितानुमितिं विना नो - ऽन्ध्यक्षोऽपि सिद्ध्यति प्रमाणतयाऽत्र बोधः ।।१०४४।। नैवाऽनुमा नियतलिङ्गमतिं विना स्यात्, तर्कं विना न नियमग्रह एव कोऽपि । अध्यक्षवोध इह तद्विषयो न यस्मान्-नैवाऽनवस्थितिभयादनुमाऽपि तत्र ।।१०४५।। शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं, मानं विना न च तथैति प्रसिद्धिमार्गम् । सामान्यगोचरतया यदि मानता नो, किं नाऽनुमानमपि तर्हि निरस्तमेभिः ।।१०४६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org