________________
॥ श्रीन्यायसिन्धुः ॥ परोक्षप्रमाणनिरूपणम् -
मानं परोक्षमथ पञ्चप्रकारमिष्ट - मस्पष्टता भवति लक्षणमस्य युक्तम् । संस्कारजन्यमनुभूतचरं तदित्या - कारं मतं स्मरणमत्र प्रमाणमाद्यम् ।।१०२१।। ज्ञातार्थभासकतया यदि मानताऽस्य, नेष्टाऽनुमाऽपि तत एव तदा न मानम् । व्याप्तिग्रहो निखिलदेशगसाध्यहेतु - ग्राही यतः प्रथमतो नियमेन तस्याः ।।१०२२।। तन्न्यूनगोचरतया यदि मानताऽस्या - स्तद्वत् स्मृतेरपि भवेन्नहि मानता किम् । यस्मान्न चाऽनुभवगोचरमात्रभास - स्तस्यां समस्ति परमर्थविशेषभानम् ।।१०२३।। यद्वत् प्रमात्वमनुमानमतौ स्वतन्त्रं, तद्वत् स्मृतेरपि न चाऽत्र विशेषलेशः । किञ्च स्मृतिर्यदि प्रमा न भवेत् तदा नो, व्याप्तिस्मृतेरप्रमितेरनुमा प्रमा ते ।।१०२४।। धारावगाहिप्रमितौ न यतोऽस्ति वृत्ति - रज्ञातगोचरमतित्वमलक्षणं तत् । मीमांसकाभिमतमस्य परन्तु पूर्व - सन्दर्शिताद् भवति लक्षणतः प्रमात्वम् ।।१०२५।। भूयः स्मृतेर्भवति किञ्च गुरौ च देवे, भक्तिर्दृढा भवति मित्रगणेषु मैत्र्यम् । स्रेहः सुतादिषु महानधिकस्तु शत्रौ, द्वेषोऽनुभूतिमतितोऽस्य फलं विविक्तम् ।।१०२६।। ज्ञानं भवेदनुभवस्मृतिहेतुकं सा-मान्यादिगोचरकसङ्कलनास्वरूपम् । यत्रोपमादिघटनाऽप्यथ प्रत्यभिज्ञा-नं तत् प्रमाणमपरं जिनतन्त्रसिद्धम् ।।१०२७।। सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा - शक्तिप्रमाऽक्षचरणानुमतोपमा या । साऽन्तर्गताऽत्र न भवेदधिकं प्रमाणं, तेनोपमानमिति जैनमतप्रसिद्धिः ।।१०२८।। तस्मादयं विसदृशो गवयस्य शक्यो, नाऽयं स एव स च दीर्घतरस्तथाऽस्मात् । ह्रस्वो लघुर्गुरुरयं स च तस्य पुत्र, इत्यादिका भवति सङ्कलनैव बुद्धिः ।।१०२९।। न ज्ञानलक्षणमतोऽभिमतो जिनानां, संसर्ग इन्द्रियगणस्य तु गौतमोक्तम् । ज्ञानं यतः सुरभिचन्दनमित्यभिज्ञा - रूपं परोक्षमिह न त्वपरोक्षरूपम् ।।१०३०।। वेदान्तिभिः सुरभिचन्दनबोध इष्टो - ऽवच्छेदवृत्तिवशतो द्विविधस्वरूपः । प्रत्यक्षता भवति चन्दनवृत्तियोगात्, सौरभ्यवृत्तिघटनाच्च परोक्षताऽपि ।।१०३१।। सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा - ऽभ्यस्तस्थलेऽभ्युपगताऽनुमितिः क्वचित् तु । चैतन्यमेकमथ तद्वययोगशालि - ज्ञानं प्रमेत्यभिमतं तदवद्यमेव ।।१०३२।। पूर्वक्रमेण तदुभाववगत्य लोकः, पश्चाद् विशिष्टमवगच्छति धीविशेषात् । यस्मात् ततो भवति तद्व्यतिरिक्तमेव, ज्ञानं परोक्षमथ तद्वयतस्तु जन्यम् ।।१०३३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org