________________
८०
व्यावहारिकप्रत्यक्षनिरूपणम् -
स्याद् व्यावहारिकमथाऽपरसव्यपेक्ष जीवान्निजावरणकर्मलयोपशान्तेः । तस्येन्द्रियोद्भवमनिन्द्रियजन्यमेवं, द्वैविध्यमत्र कथितं जिनतन्त्रविज्ञैः ।। १००९।। तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पञ्च ज्ञानं ततो भवति सद्विषयावभासि । ज्ञानं मनोद्भवमनिन्द्रियजन्यमत्र, यस्मादनिन्द्रियतया मन इष्यते ज्ञैः ||१०१० || न प्राप्यकार्यभिमतं नयनं मनश्चाऽधिष्ठानभिन्नगतवस्तुप्रकाशकत्वात् । श्रोत्रादिकं त्वभिमतं ननु प्राप्यकार्य धिष्ठानदेशगतवस्तुप्रकाशकत्वात् ||१०११। नाऽत्राऽणुमानमपि जैनपदार्थविज्ञे - रिष्टं मनो महदिदं प्रतिपादितं तु । ज्ञानक्रमावरणकर्मलयोपशान्ति - भेदक्रमादुपगतो न मनोऽणुभावात् ॥ १०१२।
अवग्रहादिस्वरूपनिरूपणम्
एतद् द्वयं त्वथ चतुर्विधमार्हताना मेकैकशो मतमवग्रहनामधेयम् । ज्ञानं भवेत् प्रथममक्षघटादियोग्या वस्थानसञ्जनितदर्शनजन्यमत्र || १०१३।। सन्मात्रगोचरमवग्रहपूर्ववर्त्ति, यद् दर्शनं तदिह नैव मतं नवीनैः । किन्त्वक्षपातसमनन्तरमेव सत्त्व व्याप्यप्रकारकमवग्रहज्ञानमिष्टम् ||१०१४।।
-
Jain Education International
-
-
॥ श्रीन्यायसिन्धुः ॥
यच्चेन्द्रियस्य विषयेण समं नयज्ञैः, संयोजनं मतमवग्रहभेदरूपम् । तद्व्यञ्जनं न मनसो नयनस्य चाऽस्ति, योगस्तयोर्नहि मतो विषयेण यस्मात् ।। १०१५।। यः स्यादवग्रहधियाऽवगतो विशेष, ईहाख्यबोध इह तस्य विशेषधर्मैः ।
सम्भावनात्मकतया स च संशयात् स्याद् - भिन्नस्त्ववग्रहभवान्नियमेन पश्चात् ||१०१६।। ईहाग्रहावगतवस्तुविनिर्णयात्मा, बोधस्त्ववाय इति जैनमतप्रसिद्धः ।
तिष्ठन् स एव समयं ननु कञ्चिदत्र, स्याद् धारणा-स्मृतिपटुर्निजशक्तियोगात् ॥ १०१७|| एवं क्रमोत्थनिजकर्मलयोपशान्ते स्तेषां क्रमो भवति किञ्च तथोपलब्धेः । स्यात् पूर्वपूर्वमथवोत्तरबुद्धिहेतु - र्नो साङ्ख्यवत् तु करणक्रमतः क्रमोऽत्र ।।१०१८।। तस्मात् स्थितं सदवगाहिमतिस्तु पूर्वं तस्मान्मनुष्य इति वृक्ष इति प्रकारा । प्राय नेन मिथिलास्थजनेन भाव्यं, सैवाऽयमित्यवगतिक्रम आर्हतानाम् ||१०१९ || यत्राऽपि न क्रमतयाऽवगतिर्जनानामभ्यासगोचरपदार्थप्रकाशकेषु । बोधेषु तत्र शतपत्रविभेदवत् स्याच्छीघ्रोद्भवत्वबलतोऽनुपलक्षणं तु ।।१०२०।।
For Private & Personal Use Only
www.jainelibrary.org