________________
॥ श्रीन्यायसिन्धुः ॥
अन्योन्यसंश्रयघटाऽपि विलोक्यतेऽत्र, योग्यत्वतो भवति धीरनया च तद् यत् । भ्रान्त्याऽऽत्मबुद्धिजननाय च योग्यताऽपि सत्त्वे मणेरपि कथं न भवेत् त्वयेष्टा ॥ ९९७ ॥ बुद्धौ प्रमात्वमपि तत्र निवेश्यते चेत्, सम्बन्धसत्त्वबलतस्तदपीह तर्हि । किञ्चैतदेव भवतो हृदये विचिन्त्या - ऽन्योन्याश्रयः प्रथममेव प्रदर्शितोऽत्र ।। ९९८ ।।
एतादृशस्य विरहस्य न युक्तमत्यन्ताभावता कथनमप्यविशेषतो वः । भेदादितो भवति नो खलु रूढमेव, योगेऽपि सम्भवति तद्वचनं बुधाय ! ।। ९९९ ।। तादात्म्यतापरिणतिर्न कदाऽपि यत्र, यस्याऽस्त्यसौ भवति तद्विगमः परन्तु । अत्यन्ततापरिगतः प्रतिबन्धकस्य, नैतादृशोऽस्ति स तु दाहभवेऽपि काले । १०००|| उत्तेजकस्य विरहोऽपि मणौ निवेश्यः, कूटत्वतो भवति नाऽत्र गतिर्द्वितीया पूर्वप्रदर्शितदिशा सकलोऽपि दोष स्तत्राऽपि तार्किकमते विनिभालनीयः || १००१ || स्वातन्त्र्यतोऽथ प्रतिबन्धकशून्यतानां हेतुत्वमभ्युपगतं मम दाहकार्ये । उत्तेजका अपि तथैव च कारणानि, पूर्वोक्तदोषघटना न च विद्यतेऽत्र ||१००२।।
युक्तं न चैतदपि दाहसमानता नो, तत्त्वे यतो नियतकारणतो मता सा ।
नो वृश्चिकेऽस्ति नियमोऽयमवाच्यमेत च्छक्त्याऽऽर्हतानुमतया ननु सोऽस्ति यस्मात् ||१००३ ।।
आधेयशक्तिरधिकाऽन्यमतप्रसिद्धा, नो नो मताऽस्ति नहि सा सहकारिशक्तिः ।
शब्देऽपि बोधफलिकाऽभिमतार्थवन्ध स्तद्व्यञ्जकस्तु समयोऽभिमतो जिनानाम् ||१००४ ||
मनःपर्यवज्ञाननिरूपणम्
-
तस्मादशक्त इह शक्तिनिराक्रियायां नैयायिकस्त्यजतु पुद्गलजातिभेदान् । स्याद्वादवाद्यवधिबोधमपेतदोषं ज्ञो रूपिमात्रविषयं प्रकटीकरोतु ॥ १००५||
"
Jain Education International
-
चारित्रशुद्धिजनितात् क्षयशान्तितो यो, हृत्पर्ययावरणकर्मण आविरस्ति । बोधो हृदिस्थपरिणामकदम्बनिष्ठो, हृत्पर्ययोऽत्र विकलोऽभिमतो द्वितीयः ||१००६ || यच्चिन्त्यते मनसि किञ्चिदपीह वस्तु, यैस्तन्मनो भवति तत्परिणामशालि । द्रव्यात्मकं तदपि वेत्ति पुमान् विशिष्टो, हृत्पर्ययाख्यमतिभृद् विषयस्तथाऽस्य ||१००७ || साक्षात् स यद्यपि मनोगतभावमेव, जानाति नो विषयमस्य तथाऽपि वेति । लिङ्गान्मनोगतविकल्पभरात् तु तत्त दाकारतोऽनुमितितस्तमपि प्रमाणात् ||१००८||
७९
For Private & Personal Use Only
www.jainelibrary.org