________________
७८
॥ श्रीन्यायसिन्धुः ॥ सत्त्वे मणेरपि यतो विरहोऽस्य भिन्न - सम्बन्धतोऽस्ति न च दाहभवस्ततस्तु । आद्यः परन्त्वभिमतो न च सोऽपि युक्तः, संसर्ग इष्ट इह नोऽनियतस्तु कश्चित् ।।९८४।। यस्मान्न कश्चिदपि तस्य समाश्रये त्व - सम्बन्धपक्षत इहाऽपि भवेद् विशेषः । स्यात् त्वन्मतः स नियतो ननु तर्हि वाच्य - स्तादात्म्यमेष उत वा व्यतिरिक्त एव ।।९८५।। भेदो भवेच्च प्रतिबन्धकशून्यताऽऽद्ये, नो वै विरोधघटना प्रतियोगिनाऽस्य । एवं च किं भवति सप्रतिबन्धकेऽपि, देशे न दाहघटना बुध ! तेऽविशेषात् ।।९८६।। अन्त्ये तु येन प्रतिबन्धकता भवेत् स, संसर्ग एव नियतो ननु सन्निविष्टः । तद्वेदतोऽपि प्रतिबन्धकशून्यतास्तु, भिन्नाः कथं स्युरिह तेऽनुगतेन वाच्याः ।।९८७।। किञ्चोभयादिप्रतियोगिकशून्यताऽपि, मण्यादिकस्य च भवेज्जनिका तथा च । सत्त्वे मणेरपि न किं तव दाहभावो - ऽवच्छेदको निविशते यदि तत्र धर्मः ।।९८८।। ध्वंसो भवेन्न जनको न च प्रागभावो, मण्यादिकस्य बुध ! तर्हि तवैव शास्त्रे । यस्मात् तयोर्नहि मता प्रतियोगितायां, संसर्गधर्मघटना फलशून्यतातः ।।९८९।। एवं च सिद्ध इह ते प्रतिबन्धकात्य - न्ताभाव एव जनकः स तु नैव युक्तः । प्राचीनपद्धतिविलोपभयाद् यतस्तै - स्ताभ्यां च तस्य नहि देशसमानतेष्टा ।।९९०।। ध्वंसोऽपि यत्र प्रतिबन्धकभावराशेः, कार्योद्भवो विबुध ! तत्र जनप्रसिद्धः । चेन्नव्यतार्किकनयाश्रयणेन सोऽत्य - न्ताभावतो ननु भवेत् प्रतिबन्धकानाम् ।।९९१।। नित्यस्त्वया स तु मतो विभुरेकरूपः, सत्त्वे मणेरपि तथैव च तत्र देशे । वल्यादिहेतुसहितः किमु नैव दाह - कार्यं करोति मणिशून्य इव प्रदेशे ॥९९२ ।। मण्यादिसत्त्ववलतो यदि तत्र दाह - सामर्थ्यमेव विहतं ननुः शक्तिसिद्धिः । किञ्च स्वभावविगमेन विनाशिताऽपि, स्यात् तस्य तेन न भवेत् स च नित्यरूपः ।।९९३।। संसर्गतो भवति कार्यजनौ समर्थो, हेतुः स्वयं न तु तथा च भवेन्न तत्र । दाहो मणौ सति यतो विरहस्य नैव, संसर्ग इष्यत इति प्रलपन्ति यौगाः ।।९९४।। संसर्ग इष्ट इह नो व्यतिरिक्तरूपः, किन्तु स्वरूपमिदमप्युभयस्वरूपम् । नित्यत्वतो न मणिताविरहो विनष्टो, नाऽऽधार एवमथ किं न च तस्य स स्यात् ।।९९५।। संसर्गता न यदि तस्य तदा त्वयेष्टा, रूपद्वयस्य च विशिष्टमतेरभावात् । कस्माद् विशिष्टमतिरेव तदा ततो नो, तद्योग्यताविगमतो यदि शक्तिसिद्धिः ।।९९६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org