________________
॥ श्रीन्यायसिन्धुः ॥
साधारणी भवतु वहिगता तु जातिः, किन्त्वन्वयादिमतितोऽवगता विशेषात् । दाहं प्रतीत्य जनकत्वनिरूपकत्व - वत्त्वेन नो तृडुपशान्तिमुखेऽपि कार्ये ।।९७१।। इत्याक्षपादवचनं वचनीयमेव, मण्यादिकेऽपि सति यन्न च वह्नितस्तत् । दूरं प्रयाति वद कस्य लयेन दाहो, नो जायते हुतभुजोऽविचलात् तदानीम् ।।९७२।। मण्याद्यभाव इह तु प्रतिवन्धकाभा - वत्वेन हेतुरत एव न चाऽग्निमात्रात् । दाहो न वा भवति तद्गतशक्तिसिद्धि - रित्येतदप्यनुचितं वचनं च तेषाम् ।।९७३॥ भावात् पृथङ् नहि यतोऽस्ति प्रमाणसिद्धो - ऽभावो नृशृङ्गवदसौ न च कारणं स्यात् । आधार एव विरहो जिनसम्प्रदाये, मण्यादिकस्य हुतभुग्गतशक्तिरूपः ।।९७४।। किञ्चाऽक्षपादमतदर्शित एव भिन्नो - ऽभावोऽस्त्वसौ नहि भवेज्जनकस्तु दाहे । तत्त्वे मणौ सति न किं प्रतिवन्धकस्य, मन्त्रादिकस्य विरहादनलेन दाहः ।।९७५।। यत्कारणं भवति तत्समजातिकस्य, सर्वस्य कार्यजननात प्रथमं न सत्त्वम् । इष्टं यतो न भुवनत्रयवर्त्तिदण्ड - मात्रस्य कुम्भजननात् प्रथमं ह्यपेक्षा ।।९७६।। मण्यादिकस्य विरहो निखिलोऽथ हेतु - स्तद्धेतुता नियमिताऽनुगतेन केन । कूटत्वतोऽथ प्रतिबन्धकमात्रशून्य - त्वस्थेन चेत् क्वचिदपीह तदा न दाह: ।।९७७।। सर्वस्य किञ्चिदपि कार्यमपेक्ष्य यस्मात्, प्रत्येकशोऽस्ति प्रतिबन्धकतैव लोके । दाहोपघातनिपुणप्रतिबन्धकानां, राहित्यकूटमिह चेज्जनकं तदा तु ।।९७८।। भङ्गयन्तरेण भवताऽपि च शक्तिरिष्टा, नैपुण्यमर्थवलतो हि न शक्तिभिन्नम् । शक्तिं विना निपुणता प्रतिबन्धकेषु, दाहोपघातफलिका न च काचिदेका ।।९७९।। यद्यन्य एव ननु कोऽपि तवाऽत्र मान्यो, नैपुण्यताश्रयतया वुध ! तर्हि वाच्यः । किं कारणं स मणिमन्त्रमुखेषु येन, नाऽन्यत्र नैव हि विशेष इहाऽन्यभावात् ।।९८०।। कूटत्वमत्र गुणरूपतया न तेष्व - भीष्टं यतः स नियमेन च द्रव्यवृत्तिः । किन्त्वन्यदेव मतिगोचरताविशेष - रूपं भवेन्न तु भवेत् प्रकृतोपयोगि ।।९८१।। हेतुत्ववोधजननाय यतस्त्वयैवा - ऽवच्छेदकोऽप्यभिमतो मतिगोचरोऽत्र । नैवाऽन्तरेश्वरमतिं प्रकृतस्य तस्या - ऽवच्छेदकस्य तु भविष्यति रूपसिद्धिः ।।९८२।। दूरेऽस्तु बोधघटना ननु रूपमेव, नो यस्य किञ्च प्रतिबन्धकशून्यताऽपि । संसर्गतो नियमिताऽभिमताऽन्यथा वा, नाऽन्यस्तु कल्प इह तेऽपि मतो बुधाग्य ! ।।९८३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org