________________
७६
हेतुत्वमत्र यदि शक्तिपदाभिलप्यं, नो तर्हि दुर्वचतया तदलीकमेव । नैयत्यतो जनिमतां व्यवधानशून्य पूर्वक्षणानुगतता नहि हेतुता ते ।। ९५८ ।। तत्त्वेन किं गगनमप्यनुमोदितं स्याद्धेतुत्वतस्तव बुधाग्र्य ! घटादिकार्ये । दण्डत्वदण्डपरिणामकुलालहेतु - वैशाखनन्दनमुखाः किमु हेतवो नो ।। ९५९ ।। सङ्केततोऽभिनवतोऽभिनवाऽन्यथासि - द्वत्वं स्वलक्षणवलादुपगम्य तेषाम् । तद्भिन्नतां जनकलक्षणसन्निविष्टां स्वीकुर्वतोऽपि तव विज्ञ ! न दोषमुक्तिः ||९६० ।। यस्माद् विभाग इह तेऽभिमतो न हेतुः, संयोगकार्यजनने खलु तादृशोऽपि । न तत्र पञ्चविधमस्ति तवाऽन्यथासिद्धत्वं च नव्यमपि कार्यमपेक्ष्य तत् तु ॥ ९६१ ।। यद्यन्न यं प्रति जनेष्विह सम्प्रसिद्धं, हेतुत्वतो जनकलक्षणगास्तु तेषाम् । भेदा मता यदि तदा निखिलज्ञभिन्न दुर्बोधता भवतु लक्षणगोऽत्र दोषः ||९६२ ॥ वैजात्यकल्पनकथाऽपि न चाऽत्र वह्नौ, नो वा तृणारणिमणित्वमुखैश्च धर्मैः । शक्तिस्वरूपजनकत्वमुपेयतेऽव - च्छेद्यं न जैमिनिनयादविशेषताऽपि ॥ ९६३॥ शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात् सञ्जायते च जनके व्यतिरेकबोधात् । ऊहाख्यबोध इति सोऽभिमतो जिनानां व्याप्तिग्रहात्मकतयाऽपि स एव सिद्धः || ९६४ ॥ तद्व्यञ्जकास्तृणमणित्वमुखास्तु धर्मा, नो व्यञ्जकेषु नियमोऽस्ति तवाऽप्यभेदात् । यद्व्यञ्जकत्वमिह लिङ्गतयाऽऽदृतोऽस्ति, नानाविधेषु च विशेषगुणेषु पुंसः ||९६५ ।। वैकल्पिकी भवति यत्र तु हेतुता वो, वेदप्रमाणविषयो व्यतिरेकतो न । तत्राऽस्ति किञ्च जनकत्वमतिस्तथैव, किं नाऽन्वयैकमतितो ननु साऽपि लोके ॥ ९६६ ॥ एवं स्थिते दहनहेतुतया प्रसिद्धा, ये वै तृणारणिमणिप्रमुखाः पदार्थाः ।
तेषां भवेज्जनकताऽन्वयमात्रबोधा - दित्यादयोऽननुगुणा न जिनानुगानाम् ॥ ९६७ ॥
-
Jain Education International
-
मीमांसकोपरि पतेदपि दोष एषो ऽवच्छेद्यतानियमतो जनकत्व इष्टा । शक्तिस्तृणादिषु वयं प्रतिपादयामो ऽखण्डां तु तां जनकतात्मतयैव तेषु ||९६८ || अन्योन्यसंश्रयघटा तत एव नो नो, मीमांसकस्य भवेदपि सोक्तनीत्या । नैवाऽनवस्थितिघटाऽपि च हेतुतात्म शक्तौ गौतमसुतैरुपगीयमाना ।। ९६९ ।। वत्वितो यदि तु कारणताऽनलस्य, दाहं प्रति प्रतिभया ननु गौतमानाम् । वह्नित्वमस्य सकलं प्रति निर्विशेषं, किं तर्हि शान्तिरनलान्न पिपासितानाम् ।। ९७० ।।
-
-
॥ श्रीन्यायसिन्धुः ॥
For Private & Personal Use Only
www.jainelibrary.org