________________
७५
॥ श्रीन्यायसिन्धुः ॥
शक्तिं विनैव यदि शक्तिरुपेयतेऽस्मात्, किं नो भवेत् त्वदुपदर्शित एव दोषः ।। नाऽऽधारदेशनियमो भविताऽन्तिमे ते, शक्तेर्यतोऽन्यजनकादुपपत्तिरस्याः ।।९४५।। यद्वद् गुणादिसमवायिषु वस्तु विद्वन्, सञ्जायते न जनकव्यतिरिक्तभावे । शक्तिस्तथैव भवता समुपासनीया - ऽऽधारस्ततो जनक एव तवाऽपि मान्यः ।।९४६।। शक्तिं विना भवति नैव स चाऽपि शक्तः, शक्तौ त्वदुक्तनयतो ह्यनवस्थितिस्ते । इत्यादिदोषभयतो न च शक्तिसिद्धि - वेदान्तिनामपि मते भवितेति यौगाः ।।९४७।। नैतेऽक्षपादसुततोऽभिमतास्तु दोषा, जैनोक्तशक्तिविषये प्रभवन्ति तत्त्वे । शक्तिः स्वरूपसहकारिविभेदतो य - ज्जैनैर्द्विधा प्रकटिता ननु तैरवाध्या ।।९४८।। या हेतुता जनकगा ननु सैव शक्ति - जर्जात्यादिवद् भवति साऽनुगता कथञ्चित् । साधारकारणबलाच्च तदात्मभूतो - त्पन्ना स्वरूपनियता निजशक्तिरिष्टा ||९४९।। या स्वान्यकारणसमग्रसमन्वयोत्था, स्वस्मिन् स्वभिन्नजनकेषु च कार्यतः प्राक् । यामन्तरेण नहि कार्यभवे समर्थो, वह्यादिको भवति सा सहकारिशक्तिः ॥९५०।। एषा द्विधाऽपि वचनान्तरतोऽन्यतन्त्रे - ष्वप्यस्ति सिद्धिविषयो न जिनककल्प्या । यद्योग्यतात्मकफलोपहितत्त्वभेदा - द्धेतुत्वमत्र कथितं द्विविधं च हेतौ ।।९५१।। हेतौ यथा जनकशक्तिरनन्यरूपा, शक्तिस्तथैव प्रतिबन्धकतास्वरूपा ।। दाहादिकार्यजननाक्षमतानुकूला, मण्यादिभावनियता तदनन्यरूपा ।।९५२।। साऽपि स्वरूपसहकारिविभेदतोऽत्र, द्वेधाऽऽश्रयस्य जनकात् प्रथमा तु तत्र । उत्तेजकापगमसन्निधितो द्वितीया, सोत्तेजके सति न जायत एव यस्मात् ।।९५३।। मण्यादिभावसहचारबलाद् विनाशः, किं वाऽस्तु दाहजनकानलहेतुतायाः । शक्तेस्तदुद्भवफला त्वपराऽपि शक्ति - वह्नौ समस्ति तत एव पुनर्भवोऽस्याः ।।९५४।। मण्यादिकेऽग्निनिकटेऽपि च दाहशक्तिः, शक्त्या स्वजन्मफलया मुहुरेव जाता । मण्यादिनाशकवशादवतिष्ठते नो, नो तावता भवति दाहभवोऽपि तस्याः ॥९५५।। मण्यादिकेष्वपगतेषु तु सैव दाहं, वहिस्थिता ननु करोति मते जिनानाम् । उत्तेजकाननुगतः पुनरत्र शक्ते - मण्यादिको भवति नाशकृदन्यथा नो ।।९५६।। शक्त्यात्मिका जनकताऽभिमता यतो ना - ऽवच्छेदकस्य तत एव भवेद् व्यपेक्षा । नो जात्यखण्डनियतोऽभिमतस्त्वयाऽप्य - वच्छेद्यतानियम इत्यवधारयाऽन्तः ।।९५७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org