________________
७४
॥ श्रीन्यायसिन्धुः ॥ शक्तिविचारः -
मीमांसको विहतशक्तिरबाध्यमानां, शक्तिं परैर्यदि न साधयितुं समर्थः । किं तावता जिनमताखिलतत्त्वविज्ञाः, स्याद्वादशक्तिशरणा न च शक्तिमन्तः ।।९३२।। वह्नौ स्थितेऽपि मणिसन्निधितो न दाहो, यज्जायते भवति तद्विगमे च दाहः । सत्त्वेऽपि सूर्यमणिसन्निधितो मणेर्वा, वह्नौ ततः श्रुतिविदा ननु शक्तिरिष्टा ।।९३३।। नैयायिकैः पुनरिहाऽनुभवापलाप - दोषाङ्कुरैरधिककल्पनभीतिमद्भिः । स्याद्वादमुद्रितपदार्थविवेकशून्यैः, सा लाघवोहबलशालिभिरिष्यते नो ।।९३४।। दाहे मणेस्तु प्रतिबन्धकता तथा त - द्राहित्यमस्य जनकं द्वयमेव कल्प्यम् । नैयायिकस्य रविकान्तमणेस्तु तस्मि - त्रुत्तेजकत्वमत एव न शक्तिचर्चा ।।९३५।। मीमांसकस्य तु भवेद् व्यतिरिक्तशक्ति - पक्षे गुरुत्वमपरापरशक्तियोगात् । तज्जन्मनाशपरिकल्पनतो गुरुत्व - मेकान्ततत्त्वमननानिपुणस्य किञ्च ।।९३६।। वहौ तृणादिजनिते पृथगेव किञ्च, वैजात्यमक्षचरणानुगतैः प्रकल्प्य । हेतुत्वमभ्युपगतं नियतं तृणादे - स्तत्तद्विलक्षणहुताशनजातिमत्सु ।।९३७।। वह्नित्वजातिमति नो व्यभिचारतः स्या - हेतुत्वमस्य तु तृणत्वमणित्वधर्मः । शक्त्यैव किन्तु दहनार्जिकया ततो नो, वैजात्यकल्पनमिह श्रुतिपाठकानाम् ।।९३८।। फूत्कार एव सहकृत् तृणतोऽग्निभावे, नो मन्थनादि नियमो न समानशक्तौ । शक्त्याऽन्यया तदुपपादनयत्नवत्सु, वैजात्यमेव वरमित्यपि योगपन्थाः ।।९३९।। नो हेतुता भवति जातिरखण्डधर्मो, नो वा सखण्ड इह किन्तु भवेत् तथा च । नाऽस्याः स्वतो भवति धीरत एव साव - च्छिन्नत्वमभ्युपगतं नियमेन तस्याम् ।।९४०।। एवं स्थिते यदि भवेदिह शक्तिरेवा - ऽवच्छेदिका जनकताग्रहणात् तदाऽस्याः । पूर्वं ग्रहोऽभिमत एव सखण्डबोधो - ऽवच्छेदकावगमनं न यदन्तरेण ।।९४१।। शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोध - ग्राह्या भवेन्नहि परन्त्वनुमानवेद्या । सा चाऽनुमा जनकतामतिमन्तरा नो - ऽन्योन्याश्रयः स्फुटमिहेति च गौतमीयाः ।।९४२।। शक्तिस्तथा भवति किं स्वत एव किं वा, स्वाधारकारणबलादथ वाऽन्यहेतोः । स्वस्मात् स्वजन्म नहि युज्यत एव नैकं, यत्कार्यकारणतयाऽभिमतं जनानाम् ।।९४३।। आद्ये न चेदभिमतो जनकं विनैव, शक्तेर्भवस्तव तदा नियता न सा स्यात् । स्वाधारकारणगता त्वपरा द्वितीये, शक्तिर्मता यदि तदात्वनवस्थितिवः ।।९४४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org