________________
७३
॥ श्रीन्यायसिन्धुः ॥
तद्भाष्य एव मतमस्य तु सप्रपञ्च - मालोकनीयमनवद्यमकुण्ठवोधैः । दृश्याऽत्र तन्मतरहस्यविदोऽपि सूरेः, श्रीहेमचन्द्रविबुधस्य प्रगल्भवृत्तिः ।।९१९।। सामान्यगोचरतया खलु दर्शनं त - ज्ज्ञानं तदेव तु विशेषप्रकाशकत्वात् । अस्पृष्टगोचरतयाऽथ च दर्शनं स्या - नेत्रादिधीवदिति वक्ति च सिद्धसेनः ।।९२०।। एकक्षणे तदुभयावृतिकर्मनाशा - देकं द्विधर्मकमिदं भवदर्थतः स्यात् ।। सामग्र्यभाजि जनके न जनेर्विलम्बो, दृष्टो यतो भवति तत् क्रमिकं द्वयं नो ।।९२१।। नो यौगपद्यमपि तत्र ततो नयज्ञै - र्वाच्यं तथाऽनुपगमागमभङ्गभीत्या । पार्थक्यतः कथनमप्यनयोः श्रुते तु, धर्मद्वयावगतये न पृथक्त्वसिद्ध्यै ।।९२२ ।। इत्यादितन्मतरहस्यमखण्ड्यमन्यै - विस्तारतस्त्वभयदेवकृतेः सुवृत्तेः । ज्ञेयं बुधैरमलबोधविधानद? - र्भाव्या परस्परविरोधहतिश्च बुद्ध्या ।।९२३।। ज्ञानं द्विधा विकलमार्हतसम्प्रदाये, तत् पारमार्थिकतयाऽभिमतं यदन्त्यम् ।
नो क्षायिकं भवति तेन समग्रता नो, स्यात् पारमार्थमबहिःकरणोद्भवत्वात् ।।९२४।। अवधिज्ञाननिरूपणम् -
ज्ञानं भवेद् भवगुणोद्भवमत्र रूपि - द्रव्यार्थमावरणकर्मलयोपशान्तेः । यत्तद् बुधैरवधिबोध इति प्रतीतं, भ्रान्तिर्विभङ्ग इति तस्य च कीर्त्यतेऽत्र ।।९२५।। उत्पत्तिमात्रत इदं खलु नारकेषु, देवेषु चेति भवहेतुतया प्रसिद्धम् । सद्दर्शनात्मगुणतो भवतीह नृणां, यस्माद् गुणोद्भवमिदं तु तथा तिरश्चाम् ।।९२६।। छायातमःक्षितिजलानलवायुचित्त - द्रव्याणि पुद्गलभवान्यथ रूपवन्ति । क्रोधादिकर्मपटलं च तथाऽऽगमज्ञै - रिष्टं त्वनुगवरसाद्यणुबन्धजन्यम् ।।९२७।। यद्वन्न गौतमनये कठिनादिभिन्न - स्पर्शोऽपि पाकवशतः पृथिवीविकारः । भिन्नः परन्तु पृथिवीत्वसमानभाव - स्तद्वन्न किं भवतु पुद्गल एकजातिः ।।९२८।। स्पर्शान्त इष्ट इह यः खलु गौतमेन, भूमौ स एव च जलाद्यणुपुद्गलेषु । उद्भूतमेव सकलं न च तत्समुत्थे, कार्येऽखिलेऽप्यभिमतं परतैर्थिकानाम् ।।९२९।। वैशेषिकस्य च मते परमाणुमात्र - पाके घटादिपिठरस्य यथैव नाशे । जातेऽपि सृष्टिरपरा परमाणुमात्रा - च्चित्रा तथैव न च पुद्गलतोऽपि किं सा ॥९३०।। पाकप्रभेदघटना यदि तत्र तेषां, शक्तिप्रभेदभजना न च तत्र किं नः । । शक्त्यैकजातिरपि पुद्गल एव भिन्नान्, भूम्यादिकान् सृजति नाऽत्र कुतर्कबाधः ।।९३१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org