________________
॥ श्रीन्यायसिन्धुः ॥ तच्चोपमानसहितं ननु गौतमीयाः, प्राभाकरास्तदपि कल्पनतो विमिश्रम् ।। भाट्टास्त्वभावसहितं बुवते तदेव, वेदान्ततत्त्वविदुषामपि मान्यमस्ति ।।९०६।। सक्षेपतो भवति तद् द्विविधं जिनानां, प्रत्यक्षमेकमपरं च परोक्षमिष्टम् ।। यत्राऽनुमादिमतितोऽधिकधर्मभानं, स्पष्टं तदार्हतमतं प्रथमं प्रमाणम् ।।९०७।। द्वैविध्यमस्य पुनराहतसम्प्रदाये, तत्राऽदिमं भवति सांव्यवहारकाख्यम् । स्यात् पारमार्थिकमनन्यसहायजीवा - पेक्षानिजावरणकर्मलयादितोऽन्यत् ।।९०८।। साकल्यवद् विकलतावदिति द्विधाऽन्त्यं, स्यान्निर्निजावरककर्मलयात् तु तत्र । यद् द्रव्यपर्ययसमग्रप्रकाशशालि, तत् केवलं प्रथममादिमदक्षयं च ।।९०९।। तज्ज्ञानदर्शनभिदा द्विविधं बुधेन्द्र - रुक्तं समग्रनिजगोचरभाजि पूज्यैः । स्वस्वस्वभावबलतो व्यवधानशून्य - मुत्पत्तिमद् भवति तत्परहेतुशून्यम् ।।९१०।। ग्राह्यक्षयोदयवशात् तु कथञ्चिदस्य, नाशोदयावपि मतौ जिनसम्प्रदाये ।
उत्पत्त्यवस्थितिलयान्वयिताऽपि सत्ता, युज्येत तेन ननु तत्र न चाऽन्यथा सा ।।९११।। प्रमाणविचारे ज्ञानदर्शनयोयौंगपद्यविचारः -
तच्च द्वयं युगपदेव समामनन्ति, श्रीमल्लवादिप्रमुखा व्यवहारमाप्ताः । शुद्धर्जुसूत्रमुपगम्य द्वयं क्रमोत्थं, प्राहुः श्रुतैकरसिका जिनभद्रमुख्याः ।।९१२ ।। एकं तु सङ्ग्रहनयस्य समाश्रयेण, वादी समादिशति यौक्तिकसिद्धसेनः । इत्थं विरोधविमुखा ननु सूरिपक्षा, नो ज्ञस्य मोदमिह कस्य ददत्यनल्पम् ।।९१३।। यद् यस्य कार्यमिह तत्तत इष्टमन्य - च्छाद्मस्थिकं भवतु तच्च तदन्यकालम् । ज्ञानेन तुल्यसमयं त्विह दर्शनं स्यात्, स्वाभाव्यतो रविगताविव तापदीप्ती ।।९१४।। नैवेह 'जं समय'मित्यपि सूत्रमन्यै - र्वाच्यं विघातकतया समयस्य यस्मात् । तुल्यार्थतैव प्रमिता समयार्थता नो, तत्त्वेऽर्हतो नहि भवेदुभयस्य योगः ।।९१५।। हेत्वोस्तदावरणकर्मविनाशयोश्च, स्याद् यौगपद्यबलतोऽपि च यौगपद्यम् । नाऽत्राऽनयोमिथ उपैमि च हेतुभावं, छद्मस्थवद् भवतु येन न यौगपद्यम् ।।९१६।। यत् साद्यपर्यवसितत्वविधायि सूत्रं, तद् यौगपद्यमत एव भवेद् यथार्थम् । द्रव्यादिगोचरतयाऽस्य गतिर्न युक्ता, प्रश्नोत्तरे अपि यतो न तथा प्रतीते ।।९१७॥ इत्थं प्ररूपयति युक्तिकदम्बमत्र, वादी विपक्षमतखण्डनमल्लमल्लः । तत्पक्षमागमविरोधमहाप्रचण्ड - वातैः क्षिपन्ति जिनभद्रमुखाः श्रुतज्ञाः ।।९१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org