________________
॥ श्रीन्यायसिन्धुः ॥ नयविचारः -
अर्थेकदेश इह नाऽर्थतया प्रसिद्धो, ह्यर्थांश एव स तु विज्ञजनैर्निरुक्तः । तद्गोचरोऽर्थविषयत्ववियोगतस्तु, प्रोक्तो नयो वुधवरैरधिकः प्रमाणात् ।।८९४ ।। एवं च लक्षणगतोऽभिमतोऽर्थशब्दः, स्याद्वादलाञ्छितपदार्थपरो नयज्ञैः ।
नाऽतिप्रसञ्जनमतोऽस्य भवेन्नयेषु, वस्त्वंशमात्रविषयेषु मते जिनानाम् ।।८९५।। मुख्यतः केवलज्ञानमात्रस्य प्रामाण्यमुपदर्शितम् -
मुख्यं प्रमाणमिह केवलबोध एव, सैव प्रमा भवति वस्तुप्रकाशकत्वात् । यः सर्वविद् भवति सैव पदार्थमेकं, वेत्तीति यनयविदां प्रथितोऽत्र पन्थाः ।।८९६।। एकत्र धर्मिणि यतो निखिलस्य बन्धः, साक्षात्परम्परतया च मतो बुधानाम् । युक्तस्ततो निखिलवस्तुमतौ घटादेः, संसर्गिणोऽवितथबोध इमां विना नो ।।८९७॥ मत्यादयस्त्विह तु यद्यपि मानमध्ये, प्रोक्तास्तथाऽपि गुणतः प्रमितित्वभाजः । यस्मादसर्वविषयाः प्रथिता मतेऽस्मि - नक्षायिकत्वत इमे जिनतन्त्रविज्ञैः ।।८९८।। भेदस्त्वभेदसहितः प्रथमं निरुक्तः, संसर्ग आर्हतमते निखिलेषु यस्मात् । तस्माद् घटादिमतयोऽपि प्रमा अभेदां - शालम्बनात् खलु भवन्ति प्रधानभावात् ।।८९९।। कुम्भोऽयमित्यवगतिस्तु घटत्वमेकं, कुम्भेऽवभासयतु मात्वमथाऽपि तस्याः । सत्त्वादयोऽप्यवगतास्तदभिन्नतादा - त्म्यादेकताश्रयतयाऽऽश्रयतो यतोऽस्याम् ।।९००।। भेदांशगोचरतया तु नयत्वमस्यां, सुस्पष्टमर्थविषयत्वलयाद् विभाव्यम् । यत् सर्वथा विबुध ! मानविभिन्नरूपे, नो सम्मता सुनयता नयकोविदानाम् ।।९०१।। मानं च यैर्नयसमूहतया निरुक्तं, तेषामपि प्रथमदर्शित एव भावः । नो चेन्नया इह प्रमामतितो विभिन्ना, दुर्नीतितोऽथ च कथं न विवेचनीयाः ।।९०२।। एवं च नाऽन्धसमुदायवदस्य वस्त्व - द्रष्टृत्वमज्ञजनसञ्जितमस्ति किञ्च । नो यौगपद्यत इहाऽघटनान्नयानां, मानापलापघटना जिनदेवतानाम् ।।९०३।। अस्त्येव कुम्भ इति दुर्नयवाग्विलासः, स्याच्छब्दयोजनबलात् स च मानशब्द: ।
अस्तीति नीतिवचनं पुनरत्र विज्ञै - भैदेन तद्विभजनं कृतमेव शब्दैः ।।९०४।। प्रमाणविचारः -
प्रत्यक्षमेव गुरुसम्मतमत्र मानं, बौद्धोऽनुमानसहितं तदवेति मानम् । वैशेषिकोऽपि च तदेव करोति चित्ते, साङ्ख्यस्तु शब्दसहितं तदुरीकरोति ।।९०५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org