________________
॥ श्रीन्यायसिन्धुः ॥ अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध, कोटिद्वयावगमको निपुणोऽन्यथा नो । सन्देहबुद्धिजनने न कथञ्चिदुक्ता - वव्याप्यवृत्तिमतिसन्निधितोऽस्ति सा तु ।।८८१।। किञ्च प्रमाणमतिगा न विशेष्यतैकै - कत्राऽस्त्यनेकगप्रकारतया निरूप्या । भिन्ना परन्तु तत एव न संशयत्व - मापाद्यमानमिह युज्यत आक्षपादैः ।।८८२॥ ये चाऽनवस्थितिमुखा मम दोषसङ्काः, स्याद्वादतत्त्वविषये नहि ते तु दोषाः । एकान्ततत्त्वमनने तु कथं न दोषा, जय्या मयैव प्रतिपक्षिजना हि दोषैः ।।८८३।। सर्वे नया जिननयेऽभिमताः कथञ्चित्, तत्त्वप्रवेशबलतो न च किं तथा च । तत्स्थापका अपि भवन्ति त एव दोषा, एकान्ततैव परमेष्वपि तैर्निवार्या ।।८८४।। प्राधान्यगौणविधया द्विविधोऽत्र मार्गः, स्याद्वादिनां सकलवस्तुगतः प्रसिद्धः । एकत्र चैकसमये नियतैकहेतो - रेको द्वयं न पुरुषः प्रथितुं समर्थः ।।८८५।। एवं स्थिते भवति यस्य प्रधानभावात्, संस्थापना ननु यतो गुणतस्ततो नो । एतावता भवति खण्डकताऽपि तस्य, स्याद्वादिनामनुगुणैव प्रमाणभाजाम् ।।८८६।। किं विस्मृतं च भवता जिनतन्त्रविज्ञैः, सन्दर्शितं हि शतशोऽत्र प्रकारभेदात् । एकत्र धर्मिणि विरुद्धपदार्थसार्थ - संयोजनं न च निरूपकतोऽद्वितीयात् ।।८८७।। यस्यैव यो भवति साधक आर्हतानां, तस्यैव बाधकतयाऽभिमतः स किन्तु । स्याद्वादनीतिशबला भजनां विना नो, क्वैकान्तवादिगणतोषकरोऽयमर्थः ।।८८८।। स्याद्वादसिद्धिप्रवणे नयसिद्धिभाजा, द्वेषो नयैकशरणे न च मुक्तिभाजाम् । स्याद्वादपक्षविमुखो नय एव नाऽस्ति, येन प्रसक्तिरपि तस्य भवेच्च तेषाम् ।।८८९।। वादे पराभवघटा सुलभा तु ते स्या - देकान्ततोऽत्र जय एव न चाऽस्ति यस्मात् । स्याद्वादिनां स तु पराभवमिश्रितोऽस्ति, स्वीकारयोग्य इति किं न करोपि चित्ते ।।८९०।। तस्मात् प्रमाणमनवद्यमिह प्रमातृ - रूपं प्रमाऽपि च भवेन्नयभेदतस्तत् । द्रव्यावगाहिनयतो हि प्रमात्रभिन्नं, पर्यायगोचरनयात् तु प्रमास्वरूपम् ।।८९१।। किञ्चाऽर्थगोचरतया प्रमितौ प्रमात्वं, स्वात्मप्रकाशकतया तु प्रमाणभावः । अर्थावगाहनघटा परतो विभिन्ना - ऽभिन्नात्मबोधरचना स्वत एव यस्मात् ।।८९२।। बोधः स्वपूर्वमतितो जननात् प्रमात्मा, स्वोदीच्यबोधफलतोऽथ प्रमाणरूपः । बोधात्मनाऽऽत्मनियतश्च प्रमातृरूपो, ह्यन्वर्थता भवति तेन प्रमाणतादे: ।।८९३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org