________________
॥ श्रीन्यायसिन्धुः ॥
स्याद्वादवाद्यपि हि सर्वमनन्तधर्मा - धारं वदन् नियतधर्मसमाश्रयेण । स्पष्टीकरोति पृथगेव निरूपकस्या - ऽवच्छेदकस्य भजनात इह स्वरूपम् ।।८६८।। मुक्त्यात्मना परिणतोऽपि य एव जीवो, बन्धात्मना परिणतोऽभवदेष पूर्वम् । पूर्वापरादिसमयादिप्रवेशतः किं, नो मुक्तिरप्यनुमता मम बन्धमिश्रा ।।८६९॥ कर्मावृतत्वसमये वितथावभासा - ज्ज्ञानं भ्रमात्मकमिहाऽभिमतं यदेव । कर्मावृतत्त्वविगमेऽवितथावभासा - ज्ज्ञानं प्रमात्मकमथाऽभिमतं तदेव ।।८७०।। कैवल्यजन्मसमयात् प्रथमं जिनोऽपि, भ्रान्तो मयाऽभ्युपगतोऽखिलतत्त्ववेत्ता । तीर्थङ्करः स तु यदा प्रमया तदानी - मालिङ्गितो न च किमत्र यथार्थवक्ता ।।८७१।। देशेन देशदलनं ननु सम्मतं नो - ऽनेकान्तवादघटनाविरहित्वकाले । स्याद्वादतैव बुध ! सर्वनयेषु यत्र, तत्राऽर्थतत्त्वमननार्थक एव यलः ।।८७२।। रागादयोऽपि च विरुद्धगुणान्विता नो, नो सम्मताः समनिरूपकधर्मतोऽत्र । पूर्वोक्तदोषघटना मम येन किन्त्व - वच्छेदकादिभजनानुगताश्च ते तु ।।८७३।। मानं ममाऽभिलषितं परिपूर्णवस्तु - प्रद्योतकं भवति निर्णयरूपमेव । यस्मादनन्तघटनाविषयैव बुद्धि - रेकत्र धर्मिणि प्रमाभिमतार्थवत्त्वात् ।।८७४।। नाऽनन्तधर्मविषयत्वत एवमस्य, सन्देहता भवितुमर्हति निर्णयस्य । दोलायमानतनुरेव तु बोध इष्टो, यत्संशयो बुधवरैर्न तु निर्णयात्मा ।।८७५।। दोलायमानतनुता तु विरोधभाना - ज्ज्ञाने भवेन्न तु विभिन्नप्रकाशकत्वात् । माने तु नाऽस्ति नियतस्य च देशकाला - वच्छेदकस्य मननेन विरोधभानम् ।।८७६।। यस्मात् समुच्चयमतिर्भवतां मतेऽपि, नो संशयात्मकतया प्रथिताऽविरोधे । अव्याप्यवृत्तिमतिरत्र विरोधभान - स्यैतावता बुध ! मता प्रतिबन्धिकाऽपि ।।८७७।। शब्दो नियन्त्रिततया तत एव विद्वन् !, नो संशयात्मकमतिप्रगुणो मतस्ते । किञ्चाऽत एव न च सत्प्रतिपक्षतोऽपी - ष्टः संशयोऽनुमितिरूपतया बुधाग्य ! ।।८७८।। चेद् रनकोशकृदनिश्चयरूपशाब्द - लिङ्गोत्थधीमननतत्पर आप्त इष्टः । तर्यस्तु संशयमतिर्ननु शब्दलिङ्ग - जन्या परं न भजनाङ्कितशब्दतः सा ।।८७९॥ नो संशयत्वमिह तेन मतं हि कार्या - वच्छेदकं भवति चाऽर्थसमाजतस्तत् । सन्देहताघटकधर्मसमाजहेतु - सामग्रयकूटघटनार्थसमाजवाच्या ।।८८०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org