________________
॥ श्रीन्यायसिन्धुः ॥ व्यासज्यवृत्तिरिह वस्त्रघटादिभावो, नैकत्र तिष्ठति परन्तु समग्र एव । स्वारम्भके यत इति प्रथितो निरस्तो, मार्गोऽक्षपादसुतकल्पित एष कष्टः ।।८५५।। रक्तं यदेव प्रथमं ननु रूपमासीत्, पाकेन रक्ततरमत्र तदेव जातम् । इत्यादिसर्वजनसिद्धप्रतीतितो हि, रूपादयोऽपि परिणामितयाऽभ्युपेयाः ।।८५६।। उच्छेद एव यदि रक्तगुणस्य पाकात्, पूर्वस्य तर्हि वद कोऽत्र भवेद् विशेषः । रक्तस्तु रक्ततरतां समुपैति नाऽन्य - च्छ्यामादिकं परमसौ बुध ! रक्तिमानम् ।।८५७।। तस्मात् कथञ्चिदिह भिन्नमभिन्नमर्थं, रूपादिकं यदि करिष्यसि वोधनिष्ठम् ।
स्थैर्यं भविष्यति तदैव तव प्रसिद्धं, बुद्धान्वयादविहतं न तु सर्वथैक्ये ।।८५८।। स्याद्वादप्रभावोपवर्णनम् -
मानैकदृष्टिरपि किं न विरोधरक्षा, कुर्वन्नयानुसरणेन विभज्य धर्मान् । स्याद्वादमन्त्रशरणोऽर्हति विज्ञ ! वक्तु - मेकत्र धर्मिणि निरस्तसमस्तदोषान् ।।८५९।। स्याद्वाद एष सकलागमतो विशिष्टः, सर्वे नया इह यतोऽभिमता निविष्टाः । तेषां न खण्डनमिहाऽऽर्हततत्त्वविज्ञैः, स्यान्मण्डनं परमसौ नयमेलनेन ।।८६०।। वेदान्तिकापिलमुखाः परवादिनोऽन्ये, एकान्ततत्त्वमननाविरता भवेयुः । स्याद्वादिनां किमिति नो सुहृदस्तदा ते, मोक्षानुसारिसरणौ क्व विरोधचर्चा ।।८६१।। इष्टस्तु सङ्ग्रहनयो मम तेन युक्तो, ब्रह्मात्मवादिभिरपीह सखित्वमग्र्यम् । किं पुद्गले न ममताविरतिर्जिनानां, स्वात्मन्यनन्यसुखसिद्धिमुपागतानाम् ।।८६२।। आत्मप्रदेशघटनावशतो न किं नो, ज्ञानान्वयित्ववशतोऽथ च पुद्गलादेः । चैतन्यमिष्टमत एव भवेच्च योगा - चारेण सख्यमपि विज्ञ ! कथञ्चिदत्र ॥८६३।। रागो न पुत्रकनकादिषु नश्वरेषु, योग्योऽविनश्वरनिजात्मसुखे प्रशस्ते । इत्येतदर्थमिह शून्यतयैव नेष्टं, विश्वं किमङ्ग ! न च माध्यमिकेन सख्यम् ।।८६४।। इष्टो न किं बुध ! जिनैर्ऋजुसूत्रनामा, विज्ञैर्नयः क्षणिकता न कथञ्चिदिष्टा । सौत्रान्तिकोऽपि मम किं न सुहृद् भवेत् स, एकान्तवादकलुषावृत एव नो चेत् ।।८६५।। किं तार्किक ! त्वमिह तर्कपरायणोऽपि, स्याद्वादमाश्रयसि चेन्नयसङ्गमिश्रम् । नो नः सुहृद् भवसि येन न चाऽऽश्रयामो, मुक्तिं तवाऽभिलषितां हितसिद्धिरूपाम् ।।८६६।। किं नास्तिकोऽपि गुरुदोषकलङ्कितोऽपि, चार्वाकबाल इह चेदधमो नयेषु । स्याद्वाददत्तहृदयो न सुहृद् यतो न, किं व्यावहारिकनयोऽपि मतो जिनानाम् ।।८६७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org