________________
॥ श्रीन्यायसिन्धुः ॥
एकान्ततत्त्वघटना ननु यस्य पक्षे, भेदो विरुद्धबलतोऽभिनवस्तु तस्य । भेदः सदैव परिपन्थिदलेन येषां तेषां समग्रनययोगवतां क्व भीतिः ||८४२ || भेदे स्थिते तु निजधर्मिषु धर्मयोः स्याद्, भिन्नाश्रितत्वबलतस्तु विरोधसिद्धिः । तस्माच्च भेदघटना निजधर्मिषु स्यादन्योन्यसंश्रयघटा कथमत्र न स्यात् ||८४३ || आधारभेदमननां च विनैव मानात्, तद्ग्राहकाद् यदि विरोधघटा प्रसिद्धा । मानात् तदाऽनुभवतो न कथं विरुद्ध धर्माश्रयोऽस्त्विह कथञ्चिदनन्यतावान् ||८४४|| एषैव युक्तिरिह बौद्धनिराक्रियायां, नैयायिकैरपि मता स्थिरपक्षहेतुः ।
नो चेद् विरोधहतिरेव भवेद् घटादौ, सामर्थ्यतद्विरहयोः स्थिरताप्रथायाम् ||८४५|| एकत्र परिमाणद्वयोपपादनेन नैयायिकमतखण्डम्
किञ्चाऽपरः सुगतशिष्यप्रदर्शितोऽस्य, दोषो महान् भवति तत्त्वत ऐक्यवादे || यस्मात् स्थितेऽपि किमु धर्मिणि कालभेदा - देकत्र भिन्नपरिणामसमन्वयो नो । ८४६ ।। द्रव्यस्य नाशजनितो यदि तस्य नाशो, रूपस्य किं नहि तथैव विनाश इष्टः । पूर्वापरैक्यविषयावगतेस्तु तत्र, नो द्रव्यनाश इति चेत् प्रकृतेऽपि तुल्यम् ||८४७।। द्रव्यान्तरोपजननादथ वा तु पूर्व द्रव्येऽविनाशिनि भवेत् पृथगेव मानम् । साजात्यदोषबलतो न पृथक् प्रतीतिः, पूर्वस्य तेन न विनाशप्रकल्पनाऽपि ॥ ८४८ || तेनैकदीर्घतरतन्तुवितानताना भ्यां यत्र वस्त्रजनिरंशुप्रयोगताऽस्ति ।
-
नो खण्डतन्तुभवनं न च पूर्वतन्तु - नाशोऽपि तत्र कणभक्षसुतैरुपेयम् ||८४९ ।। तन्त्वंशुयोगजनकादुभयत्र वस्त्रं, सञ्जायतां किमपि नाऽत्र च दूषणं वः । यस्माद् विरोधनियमोपगमे न मूर्त्तानां मूर्त्तयोरथ च मानमिहाऽस्ति किञ्चित् ||८५०|| किञ्चाऽवगाहनविशेषवशाच्च पूर्व मानं द्वितीयपरिमाणतयाऽविनाशे ।
द्रव्यस्य किं परिणतं न भवेत् ततश्च द्रव्यान्तरोपजननं न पृथक् प्रकल्प्यम् ||८५१ ॥ दृष्टोऽवगाहनविशेषबलाच्च लोष्ठः, कार्पासकादित इहाऽल्पतनुर्गरिष्ठः । आरम्भकावयवगा तु बहुत्वसङ्ख्या, तत्र स्थिताऽपि न विलक्षणमानहेतुः ||८५२ || संयोगिपुद्गलवलादवगाहनस्य, वैशिष्ट्यतोऽपि परिमाणविशेष इष्टः । दुग्धं हि पारदविनिर्मितपात्रपीतं, वान्तं मितं न्वितरथाऽधिकमानमेव ||८५३ || एतेन योऽप्यवयवान्यजलादिवस्तु संसर्गतोऽवयविनो न हि मानभेदः । स्वारम्भकावयवयोगभवे तु तस्मिन् नाशो नवीनजननात् प्रथमस्य युक्तः ||८५४ ||
Jain Education International
1
-
For Private & Personal Use Only
६७
www.jainelibrary.org