________________
६६
॥ श्रीन्यायसिन्धुः ॥ स्याद्वादतत्त्वमननश्रमपूर्विका नो, दोषांशमात्रघटनाऽपि समस्ति किञ्च । स्याद्वादतत्त्वमननाश्रमपूर्वकास्तु, दोषाः प्रसिद्धिपदवीमपि नैव यान्ति ।।८२९।। एकाश्रितत्वविरहः किमु वो विरोधः, सामान्यतोऽस्ति किमु वा सविशेष एषः । नैयायिकैर्न प्रथमो विरहेण साक - मव्याप्यवृत्तिप्रतियोगिन इष्यते सः ।।८३०।। पक्षोऽन्तिमो यदि तदा ननु देशकाला - वच्छेदकेन घटितोऽभिमतः स ते स्यात् । धर्मादयोऽप्यभिमता मम विज्ञ ! तत्रा - ऽवच्छेदकांशविधयेति न दत्तदोषः ।।८३१।। धर्मादिसङ्कटनमत्र न केवलं नो, नैयायिकस्य च मतेऽनुमतं यतस्तत् । संयोग इष्ट इह तेन गुणत्वसत्त्व - मेयत्वधर्ममुखतो न च देशवृत्तिः ।।८३२ ।। संयोगतो भवति देशगतोऽथ वह्निः, स्याद् व्याप्यवृत्तिरपि यत् समवायतः सः । संसर्गभेदघटनाऽपि विरोधकोटौ, नैयायिकैरनुमतैव विरोधसिद्ध्यै ।।८३३।। काले विशेषणतया ननु द्रव्यतादे - रव्याप्यवृत्तिरपि वाच्यप्रमेयतादे: । यद्व्याप्यवृत्तिरिह तार्किकसम्मतोऽस्ति, तज्जैनतत्त्वसरणौ न विरोधभङ्गः ।।८३४।। वैशेषिकस्य च मतेऽभिमताः पदार्थाः, सप्तैव तेष्वनुमताः प्रतियोगिताद्याः । ते स्वाश्रयान्नहि भवन्ति पृथक्त्ववन्त, एकत्र धर्मिणि तथाऽऽश्रयधर्मभावः ।।८३५।। अव्याप्यवृत्तिरिह किञ्च मतोऽपि भेदो, न्याये शिरोमणिमुखैर्वहुभिस्तु नव्यैः । वाच्यो विरोध इह तैरपि कोऽप्यपूर्वो, भेदस्थलेऽपि स च किं न भवेन्मते नः ।।८३६।। एतेन गीतमितरैरिह यद्विरोध - मात्रस्य नैकमपि लक्षणमस्ति किञ्चित् । किन्तु पृथग् भवति लक्षणमत्र लक्ष्य - भेदात् तथा च न जिनानुमतप्रसिद्धिः ।।८३७।। भेदो यतो न च बुधैरिह देशकाला - वच्छेदकानुसरणेन मतोऽर्थनिष्ठः । स व्याप्यवृत्तिरपि तु प्रथितस्ततश्चा - ऽवच्छेदको न च तदीयविरोधकुक्षौ ।।८३८।। अस्तगतं तदिह तार्किकभूषणैर्हि, नव्यैः शिरोमणिमुखैरपि युक्तिजालैः । स्याद्वादतत्त्वरसलेशभवप्रयत्नै - ाये निरूपितमिदं न च किं यथार्थम् ।।८३९।। किं वा यथा तव मते ननु लक्ष्यभेदात्, तल्लक्षणं पृथगिह व्यवहारहेतुः । तद्वत् कथं नयप्रमाणविभेदतो न, लक्ष्यस्वरूपमपि भिन्नमिहाऽऽर्हतानाम् ।।८४०।। तत्त्वे नयैकवलतो न च लक्षणेऽस्त्व - वच्छेदकस्य घटना प्रमितेः कथं नो । दुर्नीतिमात्रपरिकल्पितमर्थशून्य - मेतत् परन्तु न च तत्त्वदृशां मनोज्ञम् ।।८४१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org