________________
॥ श्रीन्यायसिन्धुः ॥
भावोऽप्यभाव इति तेऽभिमतो विरोधा - भावावगाहिनयसूत्रणतत्परस्य । तत्त्वे सुखं न किमु दुःखविनाशरूपं, स्वीकृत्य तार्किकमताऽभिमताऽस्तु मुक्तिः ।।८१६।। भूतत्वतोऽप्यभिमतं न च चेतनत्वं, यत् सर्वथा तव विरुद्धमतो निबोध । चार्वाकबाललपितं हृदि बुद्धिशालिन् !, कृत्वा गुरुं गुरुतया स्मर तत्त्वदृष्ट्या ।।८१७।। स्याद्वादिनस्तव मते ननु मुक्तिदेवी, किं बन्धतां शिरसि नैव दधात्यनिष्टाम् । कस्तां बुधो विहतमोहनरेन्द्रदर्पः, सेवेत तत्त्वरसिको हितमात्रकामः ।।८१८।। ज्ञानं तथा सकलवस्त्वगाहि मान्यं, नो सर्वथाऽभ्रमतयैव तवाऽत्र विद्वन् ! । किन्तु भ्रमत्वमपि तत्र तथा च तेऽर्हन्, भ्रान्तः कथं विशदयत्विह तत्त्वराशिम् ।।८१९।। वस्त्वंशमात्रविषयोऽपि मतो नयस्ते, मानत्वयोग्यपि भवेदविरोधवादे । तत्खण्डनं स्वमतखण्डनमेव तस्मा - नैयायिकादिमतखण्डनमप्ययुक्तम् ।।८२०।। रागादिदोषरहितोऽपि च सर्वदृश्वा, तीर्थङ्करो भवतु रागयुतो मते ते । सिद्धोऽप्यसिद्ध इह बद्धजनोऽपि मुक्तो, दोषान्वितोऽपि तव किं न च दोषमुक्तः ।।८२१।। मानं तवाऽभिलषितं परिपूर्णवस्तु - प्रद्योतकं तदपि संशयरूपमेव । यस्माद् विरुद्धघटनाविषयैव बुद्धि - रेकत्र धर्मिणि मता बुध ! संशयाख्या ।।८२२।। ये चाऽनवस्थितिमुखास्तव दोषसङ्का - स्ते सर्वथा न खलु दोषतयैव मान्याः । इत्थं च वादिनिवहान् वद कैः प्रकारै - र्वादे प्रजेष्यसि परोक्तिविभेददक्षैः ।।८२३।। एकान्तवादभयतो न च सर्वथा ते, दोषाः परोक्तमतखण्डन एव दक्षाः । तत्स्थापका अपि न किं भवितार एते, साधु त्वयाऽभिनव एव प्रकार इष्टः ।।८२४।। ये वा स्वपक्षमननोद्भवतत्परास्ते, लिङ्गादयो गुणतया प्रतितन्त्रसिद्धाः । ते किं स्वपक्षदलना अपि नो भवेयु - र्लब्धो विपक्षगणतोषकरो गुणोऽपि ।।८२५।। स्याद्वाद एव तव किञ्च न सर्वथा स्यात्, स्याद्वादताश्रय इह स्वमतप्रकोपात् । एकान्तवादघटनाऽपि च पाक्षिकी किं, मान्या ततो न च यतो न नयाङ्घिसेवा ।।८२६।। वादे पराभवघटा सुलभा तथा ते, एकान्ततो हि जय एव न चाऽस्ति विद्वन् ! ।
स्याद्वादिनः परपराभवमिश्रितः स, स्वीकारयोग्य इति किं न करोषि चित्ते ।।८२७।। जैनमते विरोधपरिहारः -
इत्थं च वादिनिवहैरुपगीयमानो, दोषप्रपञ्च इह जैनमते न दोषः । एकान्ततत्त्वमननव्यतिरिक्तपक्षे, स्याद्वादिनां क्व नु भवेद् गुणदोषचर्चा ।।८२८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org