________________
८४
अभावनिरूपणम् -
तत्राऽसदंशवचनेन च तार्किकाणां, भावातिरिक्तविषये विरहादिवाणी । एकान्तवादपरिनिष्ठितबुद्धिभाजां क्षिप्ता नृशृङ्गवचनादिसहोदराऽभूत् ||१०६०|| इष्टश्चतुर्विधतया स जिनानुगानां यः कार्यपूर्वसमये स च प्रागभावः । मृत्पिण्डमेव कलशात् प्रथमं च तत्र, तिष्ठेत् तदात्मकतयाऽभिमतं न चाऽन्यत् ||१०६१।। यन्नाशतो भवति यस्य जनिः स एव सामान्यतो नियमतः स च प्रागभावः । यस्मान्मतः क इह पिण्डविभिन्नरूपो, दृष्टो मृदो भवतु गौतमसम्मतो यः ||१०६२ ।। यज्जन्मतो भवति तस्य निवृत्तिरेव ध्वंसः स एव ननु तस्य मतो जिनानाम् । ध्वंसो घटस्य च कपालकदम्बरूपा दन्यस्ततोऽक्षचरणानुमतो न युक्तः ||१०६३ ||
-
रूपान्तराद् भवति यस्तु विलक्षणः स, आत्मा निजस्य कथितो ननु भेदनामा । नाऽऽधारतः परमयं पृथगेव युक्तो, यो गौतमैरभिहितो ऽनुपलभ्यमानः ॥ १०६४ || कालत्रयेऽपि च जडे ननु चेतनाया, याऽयोग्यता चिति जडस्य च तत्स्वरूपा । तादात्म्यतापरिणतेर्विनिवृत्तिरत्यन्ताभाव इष्ट इह नाऽऽश्रयतोऽतिरिक्तः ||१०६५ || संयोगिनो भवति यो विरहोऽथ यस्य, नाऽऽत्यन्तिकः स तु भवेदिह तस्य किन्तु । संयुक्ततापरिणतेः खलु नाशप्राग भावादिकः स प्रथमोत्तरकालिकायाः || १०६६ || संयोग एव नहि यस्य कदाऽपि यत्र, स्यात् तत्र तस्य विरहो ननु दर्शितोऽपि । संयोगसङ्घटितमूर्तिरयं परन्तु, प्राप्तेस्तु वा भवति सोऽस्खलितप्रचारः ||१०६७॥ किं वा घटादिप्रतियोगिकता जलाद्या - धारानुयोगिकतया सहिता यतो नो । प्राप्तौ ततस्तदुभयोर्विरहस्वभाव - स्तत्तत्प्रतीतिविषयोऽस्त्विह नव्यनीत्या || १०६८ || बोधानतिक्रमणतो विरहस्तु सोऽपि ज्ञेयो बुधैरपरथा न च वस्तुसिद्धिः । स्याद्वादिनः सकलमेव हि वस्त्वनेक रूपं ततोऽत्र कथमैकिकवादयोगः || १०६९ || हेतुनिरूपणम् -
-
Jain Education International
॥ श्रीन्यायसिन्धुः ॥
तुर्बुधैर्य उपलब्धितया प्रदिष्टो द्वैविध्यमस्य गदितं प्रथमोऽविरुद्धः । षोढा विधौ जनकजन्यनियम्यपूर्व - पश्चात्स्वकालचरमुख्यप्रभेदतोऽलम् ।।१०७०।। एतेन सौगतमतं विधिसाधकं तु कार्यस्वभावभजनाद् विविधं निरस्तम् । यस्मादिह प्रथमदर्शितलक्षणस्य, सद्भावतोऽन्यदपि लिङ्गतयैव भाति ॥ १०७१।।
For Private & Personal Use Only
www.jainelibrary.org