Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 108
________________ ॥ श्रीन्यायसिन्धुः ॥ परोक्षप्रमाणनिरूपणम् - मानं परोक्षमथ पञ्चप्रकारमिष्ट - मस्पष्टता भवति लक्षणमस्य युक्तम् । संस्कारजन्यमनुभूतचरं तदित्या - कारं मतं स्मरणमत्र प्रमाणमाद्यम् ।।१०२१।। ज्ञातार्थभासकतया यदि मानताऽस्य, नेष्टाऽनुमाऽपि तत एव तदा न मानम् । व्याप्तिग्रहो निखिलदेशगसाध्यहेतु - ग्राही यतः प्रथमतो नियमेन तस्याः ।।१०२२।। तन्न्यूनगोचरतया यदि मानताऽस्या - स्तद्वत् स्मृतेरपि भवेन्नहि मानता किम् । यस्मान्न चाऽनुभवगोचरमात्रभास - स्तस्यां समस्ति परमर्थविशेषभानम् ।।१०२३।। यद्वत् प्रमात्वमनुमानमतौ स्वतन्त्रं, तद्वत् स्मृतेरपि न चाऽत्र विशेषलेशः । किञ्च स्मृतिर्यदि प्रमा न भवेत् तदा नो, व्याप्तिस्मृतेरप्रमितेरनुमा प्रमा ते ।।१०२४।। धारावगाहिप्रमितौ न यतोऽस्ति वृत्ति - रज्ञातगोचरमतित्वमलक्षणं तत् । मीमांसकाभिमतमस्य परन्तु पूर्व - सन्दर्शिताद् भवति लक्षणतः प्रमात्वम् ।।१०२५।। भूयः स्मृतेर्भवति किञ्च गुरौ च देवे, भक्तिर्दृढा भवति मित्रगणेषु मैत्र्यम् । स्रेहः सुतादिषु महानधिकस्तु शत्रौ, द्वेषोऽनुभूतिमतितोऽस्य फलं विविक्तम् ।।१०२६।। ज्ञानं भवेदनुभवस्मृतिहेतुकं सा-मान्यादिगोचरकसङ्कलनास्वरूपम् । यत्रोपमादिघटनाऽप्यथ प्रत्यभिज्ञा-नं तत् प्रमाणमपरं जिनतन्त्रसिद्धम् ।।१०२७।। सादृश्यबुद्धिरिह जैमिनितन्त्रसिद्धा - शक्तिप्रमाऽक्षचरणानुमतोपमा या । साऽन्तर्गताऽत्र न भवेदधिकं प्रमाणं, तेनोपमानमिति जैनमतप्रसिद्धिः ।।१०२८।। तस्मादयं विसदृशो गवयस्य शक्यो, नाऽयं स एव स च दीर्घतरस्तथाऽस्मात् । ह्रस्वो लघुर्गुरुरयं स च तस्य पुत्र, इत्यादिका भवति सङ्कलनैव बुद्धिः ।।१०२९।। न ज्ञानलक्षणमतोऽभिमतो जिनानां, संसर्ग इन्द्रियगणस्य तु गौतमोक्तम् । ज्ञानं यतः सुरभिचन्दनमित्यभिज्ञा - रूपं परोक्षमिह न त्वपरोक्षरूपम् ।।१०३०।। वेदान्तिभिः सुरभिचन्दनबोध इष्टो - ऽवच्छेदवृत्तिवशतो द्विविधस्वरूपः । प्रत्यक्षता भवति चन्दनवृत्तियोगात्, सौरभ्यवृत्तिघटनाच्च परोक्षताऽपि ।।१०३१।। सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा - ऽभ्यस्तस्थलेऽभ्युपगताऽनुमितिः क्वचित् तु । चैतन्यमेकमथ तद्वययोगशालि - ज्ञानं प्रमेत्यभिमतं तदवद्यमेव ।।१०३२।। पूर्वक्रमेण तदुभाववगत्य लोकः, पश्चाद् विशिष्टमवगच्छति धीविशेषात् । यस्मात् ततो भवति तद्व्यतिरिक्तमेव, ज्ञानं परोक्षमथ तद्वयतस्तु जन्यम् ।।१०३३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158