Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 109
________________ ८२ ॥ श्रीन्यायसिन्धुः ॥ सामान्यधर्मविरहात् स्थिरवस्त्वभावा - नेदं प्रमाणमिति बुद्धसुता वदन्ति । सामान्यसिद्धिबलतः स्थिरसाधनाच्चा - ऽभिज्ञाप्रमाणमिति जैनकुलोद्भवास्तु ।।१०३४।। किञ्चैकताभ्रमनिमित्तमवश्यमेभिः, सादृश्यमभ्युपगतं क्षणिकेषु तत्र । सादृश्यमस्ति यदि तर्हि प्रमाणमेवा - ऽभिज्ञा भवेत् सदृशवस्त्ववगाहिनी यत् ।।१०३५।। सादृश्यमेषु यदि नैव विलक्षणेषु, भावेषु तेऽभिमतमस्ति तदाऽप्यभिज्ञा । मानं विलक्षणतयाऽणुसमूहमेव, यस्मात् प्रकाशयति तेऽपि मते बुधाग्य ! ।।१०३६।। नो वै विलक्षणतयाऽप्यणवो मतास्ते, ते सम्मताः प्रचयमात्रतयैव विद्वन् ! । मानं तथाऽपि प्रचयाल्पमहत्वभासा - ऽभिज्ञा कथं न तव सङ्कलनास्वरूपा ।।१०३७।। नीलादिरूपमणुमात्रमथाऽभिधत्से, तद्पताऽप्यणुगतोपगता किमर्थम् । वैचित्र्यतो मतिगताद् यदि वा मता सा, पूर्वोक्तधर्मघटनाऽपि न किं तथैव ।।१०३८।। स्याद् वासनैव सदृशादिधियोऽनुकूला, नीलादिबुद्धिरपि किं न तयैव ते स्यात् । चित्रा तु सा विषयमन्तरतो मता चेत्, सर्वाऽपि धर्मघटना तव तर्हि मान्या ।।१०३९।। केशादिवस्तुविषया यदि न प्रमाणं, नैतावता भ्रममतिः सकलाऽप्यभिज्ञा । अध्यक्षमेकमनृतं द्विसुधांशुभासं, दृष्टं समग्रमपि तन्न तथैव सिद्धम् ।।१०४०।। यद् दृष्ट्यदृष्टिजनितं नियमस्य साध्य - हेत्वोस्त्रिकालगतयोरवगाहि तत् स्यात् । तर्कप्रमाणमिदमत्र न तं विना स्या - दित्यादिरूपमनुमाप्रमितौ समर्थम् ।।१०४१।। शब्दार्थयोरपि भवेदत एव मानात्, सामस्त्यतोऽवगत आहेतसम्प्रदाये । संसर्ग आप्तवचनोद्भवबोधहेतुः, स्यात् कार्यताधवगमोऽप्यत एव मानात् ।।१०४२।। सामान्यलक्षणमलौकिकसन्निकर्ष, नैवाऽऽमनन्ति चरितार्थमनेन जैनाः । बौद्धाः कुतर्करसिका हतबुद्धयस्तु, नेच्छन्ति तर्कमिह मानतया प्रसिद्धम् ।।१०४३।। तेषां मते घटपटाद्यपि नैव सिद्ध्ये - न्मानं विना नहि प्रमेयगतिः प्रसिद्धा । संवादलिङ्गजनितानुमितिं विना नो - ऽन्ध्यक्षोऽपि सिद्ध्यति प्रमाणतयाऽत्र बोधः ।।१०४४।। नैवाऽनुमा नियतलिङ्गमतिं विना स्यात्, तर्कं विना न नियमग्रह एव कोऽपि । अध्यक्षवोध इह तद्विषयो न यस्मान्-नैवाऽनवस्थितिभयादनुमाऽपि तत्र ।।१०४५।। शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं, मानं विना न च तथैति प्रसिद्धिमार्गम् । सामान्यगोचरतया यदि मानता नो, किं नाऽनुमानमपि तर्हि निरस्तमेभिः ।।१०४६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158