Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 111
________________ ८४ अभावनिरूपणम् - तत्राऽसदंशवचनेन च तार्किकाणां, भावातिरिक्तविषये विरहादिवाणी । एकान्तवादपरिनिष्ठितबुद्धिभाजां क्षिप्ता नृशृङ्गवचनादिसहोदराऽभूत् ||१०६०|| इष्टश्चतुर्विधतया स जिनानुगानां यः कार्यपूर्वसमये स च प्रागभावः । मृत्पिण्डमेव कलशात् प्रथमं च तत्र, तिष्ठेत् तदात्मकतयाऽभिमतं न चाऽन्यत् ||१०६१।। यन्नाशतो भवति यस्य जनिः स एव सामान्यतो नियमतः स च प्रागभावः । यस्मान्मतः क इह पिण्डविभिन्नरूपो, दृष्टो मृदो भवतु गौतमसम्मतो यः ||१०६२ ।। यज्जन्मतो भवति तस्य निवृत्तिरेव ध्वंसः स एव ननु तस्य मतो जिनानाम् । ध्वंसो घटस्य च कपालकदम्बरूपा दन्यस्ततोऽक्षचरणानुमतो न युक्तः ||१०६३ || - रूपान्तराद् भवति यस्तु विलक्षणः स, आत्मा निजस्य कथितो ननु भेदनामा । नाऽऽधारतः परमयं पृथगेव युक्तो, यो गौतमैरभिहितो ऽनुपलभ्यमानः ॥ १०६४ || कालत्रयेऽपि च जडे ननु चेतनाया, याऽयोग्यता चिति जडस्य च तत्स्वरूपा । तादात्म्यतापरिणतेर्विनिवृत्तिरत्यन्ताभाव इष्ट इह नाऽऽश्रयतोऽतिरिक्तः ||१०६५ || संयोगिनो भवति यो विरहोऽथ यस्य, नाऽऽत्यन्तिकः स तु भवेदिह तस्य किन्तु । संयुक्ततापरिणतेः खलु नाशप्राग भावादिकः स प्रथमोत्तरकालिकायाः || १०६६ || संयोग एव नहि यस्य कदाऽपि यत्र, स्यात् तत्र तस्य विरहो ननु दर्शितोऽपि । संयोगसङ्घटितमूर्तिरयं परन्तु, प्राप्तेस्तु वा भवति सोऽस्खलितप्रचारः ||१०६७॥ किं वा घटादिप्रतियोगिकता जलाद्या - धारानुयोगिकतया सहिता यतो नो । प्राप्तौ ततस्तदुभयोर्विरहस्वभाव - स्तत्तत्प्रतीतिविषयोऽस्त्विह नव्यनीत्या || १०६८ || बोधानतिक्रमणतो विरहस्तु सोऽपि ज्ञेयो बुधैरपरथा न च वस्तुसिद्धिः । स्याद्वादिनः सकलमेव हि वस्त्वनेक रूपं ततोऽत्र कथमैकिकवादयोगः || १०६९ || हेतुनिरूपणम् - - Jain Education International ॥ श्रीन्यायसिन्धुः ॥ तुर्बुधैर्य उपलब्धितया प्रदिष्टो द्वैविध्यमस्य गदितं प्रथमोऽविरुद्धः । षोढा विधौ जनकजन्यनियम्यपूर्व - पश्चात्स्वकालचरमुख्यप्रभेदतोऽलम् ।।१०७०।। एतेन सौगतमतं विधिसाधकं तु कार्यस्वभावभजनाद् विविधं निरस्तम् । यस्मादिह प्रथमदर्शितलक्षणस्य, सद्भावतोऽन्यदपि लिङ्गतयैव भाति ॥ १०७१।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158