Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 100
________________ ७३ ॥ श्रीन्यायसिन्धुः ॥ तद्भाष्य एव मतमस्य तु सप्रपञ्च - मालोकनीयमनवद्यमकुण्ठवोधैः । दृश्याऽत्र तन्मतरहस्यविदोऽपि सूरेः, श्रीहेमचन्द्रविबुधस्य प्रगल्भवृत्तिः ।।९१९।। सामान्यगोचरतया खलु दर्शनं त - ज्ज्ञानं तदेव तु विशेषप्रकाशकत्वात् । अस्पृष्टगोचरतयाऽथ च दर्शनं स्या - नेत्रादिधीवदिति वक्ति च सिद्धसेनः ।।९२०।। एकक्षणे तदुभयावृतिकर्मनाशा - देकं द्विधर्मकमिदं भवदर्थतः स्यात् ।। सामग्र्यभाजि जनके न जनेर्विलम्बो, दृष्टो यतो भवति तत् क्रमिकं द्वयं नो ।।९२१।। नो यौगपद्यमपि तत्र ततो नयज्ञै - र्वाच्यं तथाऽनुपगमागमभङ्गभीत्या । पार्थक्यतः कथनमप्यनयोः श्रुते तु, धर्मद्वयावगतये न पृथक्त्वसिद्ध्यै ।।९२२ ।। इत्यादितन्मतरहस्यमखण्ड्यमन्यै - विस्तारतस्त्वभयदेवकृतेः सुवृत्तेः । ज्ञेयं बुधैरमलबोधविधानद? - र्भाव्या परस्परविरोधहतिश्च बुद्ध्या ।।९२३।। ज्ञानं द्विधा विकलमार्हतसम्प्रदाये, तत् पारमार्थिकतयाऽभिमतं यदन्त्यम् । नो क्षायिकं भवति तेन समग्रता नो, स्यात् पारमार्थमबहिःकरणोद्भवत्वात् ।।९२४।। अवधिज्ञाननिरूपणम् - ज्ञानं भवेद् भवगुणोद्भवमत्र रूपि - द्रव्यार्थमावरणकर्मलयोपशान्तेः । यत्तद् बुधैरवधिबोध इति प्रतीतं, भ्रान्तिर्विभङ्ग इति तस्य च कीर्त्यतेऽत्र ।।९२५।। उत्पत्तिमात्रत इदं खलु नारकेषु, देवेषु चेति भवहेतुतया प्रसिद्धम् । सद्दर्शनात्मगुणतो भवतीह नृणां, यस्माद् गुणोद्भवमिदं तु तथा तिरश्चाम् ।।९२६।। छायातमःक्षितिजलानलवायुचित्त - द्रव्याणि पुद्गलभवान्यथ रूपवन्ति । क्रोधादिकर्मपटलं च तथाऽऽगमज्ञै - रिष्टं त्वनुगवरसाद्यणुबन्धजन्यम् ।।९२७।। यद्वन्न गौतमनये कठिनादिभिन्न - स्पर्शोऽपि पाकवशतः पृथिवीविकारः । भिन्नः परन्तु पृथिवीत्वसमानभाव - स्तद्वन्न किं भवतु पुद्गल एकजातिः ।।९२८।। स्पर्शान्त इष्ट इह यः खलु गौतमेन, भूमौ स एव च जलाद्यणुपुद्गलेषु । उद्भूतमेव सकलं न च तत्समुत्थे, कार्येऽखिलेऽप्यभिमतं परतैर्थिकानाम् ।।९२९।। वैशेषिकस्य च मते परमाणुमात्र - पाके घटादिपिठरस्य यथैव नाशे । जातेऽपि सृष्टिरपरा परमाणुमात्रा - च्चित्रा तथैव न च पुद्गलतोऽपि किं सा ॥९३०।। पाकप्रभेदघटना यदि तत्र तेषां, शक्तिप्रभेदभजना न च तत्र किं नः । । शक्त्यैकजातिरपि पुद्गल एव भिन्नान्, भूम्यादिकान् सृजति नाऽत्र कुतर्कबाधः ।।९३१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158