Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 98
________________ ॥ श्रीन्यायसिन्धुः ॥ नयविचारः - अर्थेकदेश इह नाऽर्थतया प्रसिद्धो, ह्यर्थांश एव स तु विज्ञजनैर्निरुक्तः । तद्गोचरोऽर्थविषयत्ववियोगतस्तु, प्रोक्तो नयो वुधवरैरधिकः प्रमाणात् ।।८९४ ।। एवं च लक्षणगतोऽभिमतोऽर्थशब्दः, स्याद्वादलाञ्छितपदार्थपरो नयज्ञैः । नाऽतिप्रसञ्जनमतोऽस्य भवेन्नयेषु, वस्त्वंशमात्रविषयेषु मते जिनानाम् ।।८९५।। मुख्यतः केवलज्ञानमात्रस्य प्रामाण्यमुपदर्शितम् - मुख्यं प्रमाणमिह केवलबोध एव, सैव प्रमा भवति वस्तुप्रकाशकत्वात् । यः सर्वविद् भवति सैव पदार्थमेकं, वेत्तीति यनयविदां प्रथितोऽत्र पन्थाः ।।८९६।। एकत्र धर्मिणि यतो निखिलस्य बन्धः, साक्षात्परम्परतया च मतो बुधानाम् । युक्तस्ततो निखिलवस्तुमतौ घटादेः, संसर्गिणोऽवितथबोध इमां विना नो ।।८९७॥ मत्यादयस्त्विह तु यद्यपि मानमध्ये, प्रोक्तास्तथाऽपि गुणतः प्रमितित्वभाजः । यस्मादसर्वविषयाः प्रथिता मतेऽस्मि - नक्षायिकत्वत इमे जिनतन्त्रविज्ञैः ।।८९८।। भेदस्त्वभेदसहितः प्रथमं निरुक्तः, संसर्ग आर्हतमते निखिलेषु यस्मात् । तस्माद् घटादिमतयोऽपि प्रमा अभेदां - शालम्बनात् खलु भवन्ति प्रधानभावात् ।।८९९।। कुम्भोऽयमित्यवगतिस्तु घटत्वमेकं, कुम्भेऽवभासयतु मात्वमथाऽपि तस्याः । सत्त्वादयोऽप्यवगतास्तदभिन्नतादा - त्म्यादेकताश्रयतयाऽऽश्रयतो यतोऽस्याम् ।।९००।। भेदांशगोचरतया तु नयत्वमस्यां, सुस्पष्टमर्थविषयत्वलयाद् विभाव्यम् । यत् सर्वथा विबुध ! मानविभिन्नरूपे, नो सम्मता सुनयता नयकोविदानाम् ।।९०१।। मानं च यैर्नयसमूहतया निरुक्तं, तेषामपि प्रथमदर्शित एव भावः । नो चेन्नया इह प्रमामतितो विभिन्ना, दुर्नीतितोऽथ च कथं न विवेचनीयाः ।।९०२।। एवं च नाऽन्धसमुदायवदस्य वस्त्व - द्रष्टृत्वमज्ञजनसञ्जितमस्ति किञ्च । नो यौगपद्यत इहाऽघटनान्नयानां, मानापलापघटना जिनदेवतानाम् ।।९०३।। अस्त्येव कुम्भ इति दुर्नयवाग्विलासः, स्याच्छब्दयोजनबलात् स च मानशब्द: । अस्तीति नीतिवचनं पुनरत्र विज्ञै - भैदेन तद्विभजनं कृतमेव शब्दैः ।।९०४।। प्रमाणविचारः - प्रत्यक्षमेव गुरुसम्मतमत्र मानं, बौद्धोऽनुमानसहितं तदवेति मानम् । वैशेषिकोऽपि च तदेव करोति चित्ते, साङ्ख्यस्तु शब्दसहितं तदुरीकरोति ।।९०५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158