Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 101
________________ ७४ ॥ श्रीन्यायसिन्धुः ॥ शक्तिविचारः - मीमांसको विहतशक्तिरबाध्यमानां, शक्तिं परैर्यदि न साधयितुं समर्थः । किं तावता जिनमताखिलतत्त्वविज्ञाः, स्याद्वादशक्तिशरणा न च शक्तिमन्तः ।।९३२।। वह्नौ स्थितेऽपि मणिसन्निधितो न दाहो, यज्जायते भवति तद्विगमे च दाहः । सत्त्वेऽपि सूर्यमणिसन्निधितो मणेर्वा, वह्नौ ततः श्रुतिविदा ननु शक्तिरिष्टा ।।९३३।। नैयायिकैः पुनरिहाऽनुभवापलाप - दोषाङ्कुरैरधिककल्पनभीतिमद्भिः । स्याद्वादमुद्रितपदार्थविवेकशून्यैः, सा लाघवोहबलशालिभिरिष्यते नो ।।९३४।। दाहे मणेस्तु प्रतिबन्धकता तथा त - द्राहित्यमस्य जनकं द्वयमेव कल्प्यम् । नैयायिकस्य रविकान्तमणेस्तु तस्मि - त्रुत्तेजकत्वमत एव न शक्तिचर्चा ।।९३५।। मीमांसकस्य तु भवेद् व्यतिरिक्तशक्ति - पक्षे गुरुत्वमपरापरशक्तियोगात् । तज्जन्मनाशपरिकल्पनतो गुरुत्व - मेकान्ततत्त्वमननानिपुणस्य किञ्च ।।९३६।। वहौ तृणादिजनिते पृथगेव किञ्च, वैजात्यमक्षचरणानुगतैः प्रकल्प्य । हेतुत्वमभ्युपगतं नियतं तृणादे - स्तत्तद्विलक्षणहुताशनजातिमत्सु ।।९३७।। वह्नित्वजातिमति नो व्यभिचारतः स्या - हेतुत्वमस्य तु तृणत्वमणित्वधर्मः । शक्त्यैव किन्तु दहनार्जिकया ततो नो, वैजात्यकल्पनमिह श्रुतिपाठकानाम् ।।९३८।। फूत्कार एव सहकृत् तृणतोऽग्निभावे, नो मन्थनादि नियमो न समानशक्तौ । शक्त्याऽन्यया तदुपपादनयत्नवत्सु, वैजात्यमेव वरमित्यपि योगपन्थाः ।।९३९।। नो हेतुता भवति जातिरखण्डधर्मो, नो वा सखण्ड इह किन्तु भवेत् तथा च । नाऽस्याः स्वतो भवति धीरत एव साव - च्छिन्नत्वमभ्युपगतं नियमेन तस्याम् ।।९४०।। एवं स्थिते यदि भवेदिह शक्तिरेवा - ऽवच्छेदिका जनकताग्रहणात् तदाऽस्याः । पूर्वं ग्रहोऽभिमत एव सखण्डबोधो - ऽवच्छेदकावगमनं न यदन्तरेण ।।९४१।। शक्तिस्त्वतीन्द्रियतयाऽक्षभवावबोध - ग्राह्या भवेन्नहि परन्त्वनुमानवेद्या । सा चाऽनुमा जनकतामतिमन्तरा नो - ऽन्योन्याश्रयः स्फुटमिहेति च गौतमीयाः ।।९४२।। शक्तिस्तथा भवति किं स्वत एव किं वा, स्वाधारकारणबलादथ वाऽन्यहेतोः । स्वस्मात् स्वजन्म नहि युज्यत एव नैकं, यत्कार्यकारणतयाऽभिमतं जनानाम् ।।९४३।। आद्ये न चेदभिमतो जनकं विनैव, शक्तेर्भवस्तव तदा नियता न सा स्यात् । स्वाधारकारणगता त्वपरा द्वितीये, शक्तिर्मता यदि तदात्वनवस्थितिवः ।।९४४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158