Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 104
________________ ॥ श्रीन्यायसिन्धुः ॥ साधारणी भवतु वहिगता तु जातिः, किन्त्वन्वयादिमतितोऽवगता विशेषात् । दाहं प्रतीत्य जनकत्वनिरूपकत्व - वत्त्वेन नो तृडुपशान्तिमुखेऽपि कार्ये ।।९७१।। इत्याक्षपादवचनं वचनीयमेव, मण्यादिकेऽपि सति यन्न च वह्नितस्तत् । दूरं प्रयाति वद कस्य लयेन दाहो, नो जायते हुतभुजोऽविचलात् तदानीम् ।।९७२।। मण्याद्यभाव इह तु प्रतिवन्धकाभा - वत्वेन हेतुरत एव न चाऽग्निमात्रात् । दाहो न वा भवति तद्गतशक्तिसिद्धि - रित्येतदप्यनुचितं वचनं च तेषाम् ।।९७३॥ भावात् पृथङ् नहि यतोऽस्ति प्रमाणसिद्धो - ऽभावो नृशृङ्गवदसौ न च कारणं स्यात् । आधार एव विरहो जिनसम्प्रदाये, मण्यादिकस्य हुतभुग्गतशक्तिरूपः ।।९७४।। किञ्चाऽक्षपादमतदर्शित एव भिन्नो - ऽभावोऽस्त्वसौ नहि भवेज्जनकस्तु दाहे । तत्त्वे मणौ सति न किं प्रतिवन्धकस्य, मन्त्रादिकस्य विरहादनलेन दाहः ।।९७५।। यत्कारणं भवति तत्समजातिकस्य, सर्वस्य कार्यजननात प्रथमं न सत्त्वम् । इष्टं यतो न भुवनत्रयवर्त्तिदण्ड - मात्रस्य कुम्भजननात् प्रथमं ह्यपेक्षा ।।९७६।। मण्यादिकस्य विरहो निखिलोऽथ हेतु - स्तद्धेतुता नियमिताऽनुगतेन केन । कूटत्वतोऽथ प्रतिबन्धकमात्रशून्य - त्वस्थेन चेत् क्वचिदपीह तदा न दाह: ।।९७७।। सर्वस्य किञ्चिदपि कार्यमपेक्ष्य यस्मात्, प्रत्येकशोऽस्ति प्रतिबन्धकतैव लोके । दाहोपघातनिपुणप्रतिबन्धकानां, राहित्यकूटमिह चेज्जनकं तदा तु ।।९७८।। भङ्गयन्तरेण भवताऽपि च शक्तिरिष्टा, नैपुण्यमर्थवलतो हि न शक्तिभिन्नम् । शक्तिं विना निपुणता प्रतिबन्धकेषु, दाहोपघातफलिका न च काचिदेका ।।९७९।। यद्यन्य एव ननु कोऽपि तवाऽत्र मान्यो, नैपुण्यताश्रयतया वुध ! तर्हि वाच्यः । किं कारणं स मणिमन्त्रमुखेषु येन, नाऽन्यत्र नैव हि विशेष इहाऽन्यभावात् ।।९८०।। कूटत्वमत्र गुणरूपतया न तेष्व - भीष्टं यतः स नियमेन च द्रव्यवृत्तिः । किन्त्वन्यदेव मतिगोचरताविशेष - रूपं भवेन्न तु भवेत् प्रकृतोपयोगि ।।९८१।। हेतुत्ववोधजननाय यतस्त्वयैवा - ऽवच्छेदकोऽप्यभिमतो मतिगोचरोऽत्र । नैवाऽन्तरेश्वरमतिं प्रकृतस्य तस्या - ऽवच्छेदकस्य तु भविष्यति रूपसिद्धिः ।।९८२।। दूरेऽस्तु बोधघटना ननु रूपमेव, नो यस्य किञ्च प्रतिबन्धकशून्यताऽपि । संसर्गतो नियमिताऽभिमताऽन्यथा वा, नाऽन्यस्तु कल्प इह तेऽपि मतो बुधाग्य ! ।।९८३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158