Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 103
________________ ७६ हेतुत्वमत्र यदि शक्तिपदाभिलप्यं, नो तर्हि दुर्वचतया तदलीकमेव । नैयत्यतो जनिमतां व्यवधानशून्य पूर्वक्षणानुगतता नहि हेतुता ते ।। ९५८ ।। तत्त्वेन किं गगनमप्यनुमोदितं स्याद्धेतुत्वतस्तव बुधाग्र्य ! घटादिकार्ये । दण्डत्वदण्डपरिणामकुलालहेतु - वैशाखनन्दनमुखाः किमु हेतवो नो ।। ९५९ ।। सङ्केततोऽभिनवतोऽभिनवाऽन्यथासि - द्वत्वं स्वलक्षणवलादुपगम्य तेषाम् । तद्भिन्नतां जनकलक्षणसन्निविष्टां स्वीकुर्वतोऽपि तव विज्ञ ! न दोषमुक्तिः ||९६० ।। यस्माद् विभाग इह तेऽभिमतो न हेतुः, संयोगकार्यजनने खलु तादृशोऽपि । न तत्र पञ्चविधमस्ति तवाऽन्यथासिद्धत्वं च नव्यमपि कार्यमपेक्ष्य तत् तु ॥ ९६१ ।। यद्यन्न यं प्रति जनेष्विह सम्प्रसिद्धं, हेतुत्वतो जनकलक्षणगास्तु तेषाम् । भेदा मता यदि तदा निखिलज्ञभिन्न दुर्बोधता भवतु लक्षणगोऽत्र दोषः ||९६२ ॥ वैजात्यकल्पनकथाऽपि न चाऽत्र वह्नौ, नो वा तृणारणिमणित्वमुखैश्च धर्मैः । शक्तिस्वरूपजनकत्वमुपेयतेऽव - च्छेद्यं न जैमिनिनयादविशेषताऽपि ॥ ९६३॥ शक्तिग्रहोऽन्वयविलोकनसव्यपेक्षात् सञ्जायते च जनके व्यतिरेकबोधात् । ऊहाख्यबोध इति सोऽभिमतो जिनानां व्याप्तिग्रहात्मकतयाऽपि स एव सिद्धः || ९६४ ॥ तद्व्यञ्जकास्तृणमणित्वमुखास्तु धर्मा, नो व्यञ्जकेषु नियमोऽस्ति तवाऽप्यभेदात् । यद्व्यञ्जकत्वमिह लिङ्गतयाऽऽदृतोऽस्ति, नानाविधेषु च विशेषगुणेषु पुंसः ||९६५ ।। वैकल्पिकी भवति यत्र तु हेतुता वो, वेदप्रमाणविषयो व्यतिरेकतो न । तत्राऽस्ति किञ्च जनकत्वमतिस्तथैव, किं नाऽन्वयैकमतितो ननु साऽपि लोके ॥ ९६६ ॥ एवं स्थिते दहनहेतुतया प्रसिद्धा, ये वै तृणारणिमणिप्रमुखाः पदार्थाः । तेषां भवेज्जनकताऽन्वयमात्रबोधा - दित्यादयोऽननुगुणा न जिनानुगानाम् ॥ ९६७ ॥ - Jain Education International - मीमांसकोपरि पतेदपि दोष एषो ऽवच्छेद्यतानियमतो जनकत्व इष्टा । शक्तिस्तृणादिषु वयं प्रतिपादयामो ऽखण्डां तु तां जनकतात्मतयैव तेषु ||९६८ || अन्योन्यसंश्रयघटा तत एव नो नो, मीमांसकस्य भवेदपि सोक्तनीत्या । नैवाऽनवस्थितिघटाऽपि च हेतुतात्म शक्तौ गौतमसुतैरुपगीयमाना ।। ९६९ ।। वत्वितो यदि तु कारणताऽनलस्य, दाहं प्रति प्रतिभया ननु गौतमानाम् । वह्नित्वमस्य सकलं प्रति निर्विशेषं, किं तर्हि शान्तिरनलान्न पिपासितानाम् ।। ९७० ।। - - ॥ श्रीन्यायसिन्धुः ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158