Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 97
________________ ॥ श्रीन्यायसिन्धुः ॥ अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध, कोटिद्वयावगमको निपुणोऽन्यथा नो । सन्देहबुद्धिजनने न कथञ्चिदुक्ता - वव्याप्यवृत्तिमतिसन्निधितोऽस्ति सा तु ।।८८१।। किञ्च प्रमाणमतिगा न विशेष्यतैकै - कत्राऽस्त्यनेकगप्रकारतया निरूप्या । भिन्ना परन्तु तत एव न संशयत्व - मापाद्यमानमिह युज्यत आक्षपादैः ।।८८२॥ ये चाऽनवस्थितिमुखा मम दोषसङ्काः, स्याद्वादतत्त्वविषये नहि ते तु दोषाः । एकान्ततत्त्वमनने तु कथं न दोषा, जय्या मयैव प्रतिपक्षिजना हि दोषैः ।।८८३।। सर्वे नया जिननयेऽभिमताः कथञ्चित्, तत्त्वप्रवेशबलतो न च किं तथा च । तत्स्थापका अपि भवन्ति त एव दोषा, एकान्ततैव परमेष्वपि तैर्निवार्या ।।८८४।। प्राधान्यगौणविधया द्विविधोऽत्र मार्गः, स्याद्वादिनां सकलवस्तुगतः प्रसिद्धः । एकत्र चैकसमये नियतैकहेतो - रेको द्वयं न पुरुषः प्रथितुं समर्थः ।।८८५।। एवं स्थिते भवति यस्य प्रधानभावात्, संस्थापना ननु यतो गुणतस्ततो नो । एतावता भवति खण्डकताऽपि तस्य, स्याद्वादिनामनुगुणैव प्रमाणभाजाम् ।।८८६।। किं विस्मृतं च भवता जिनतन्त्रविज्ञैः, सन्दर्शितं हि शतशोऽत्र प्रकारभेदात् । एकत्र धर्मिणि विरुद्धपदार्थसार्थ - संयोजनं न च निरूपकतोऽद्वितीयात् ।।८८७।। यस्यैव यो भवति साधक आर्हतानां, तस्यैव बाधकतयाऽभिमतः स किन्तु । स्याद्वादनीतिशबला भजनां विना नो, क्वैकान्तवादिगणतोषकरोऽयमर्थः ।।८८८।। स्याद्वादसिद्धिप्रवणे नयसिद्धिभाजा, द्वेषो नयैकशरणे न च मुक्तिभाजाम् । स्याद्वादपक्षविमुखो नय एव नाऽस्ति, येन प्रसक्तिरपि तस्य भवेच्च तेषाम् ।।८८९।। वादे पराभवघटा सुलभा तु ते स्या - देकान्ततोऽत्र जय एव न चाऽस्ति यस्मात् । स्याद्वादिनां स तु पराभवमिश्रितोऽस्ति, स्वीकारयोग्य इति किं न करोपि चित्ते ।।८९०।। तस्मात् प्रमाणमनवद्यमिह प्रमातृ - रूपं प्रमाऽपि च भवेन्नयभेदतस्तत् । द्रव्यावगाहिनयतो हि प्रमात्रभिन्नं, पर्यायगोचरनयात् तु प्रमास्वरूपम् ।।८९१।। किञ्चाऽर्थगोचरतया प्रमितौ प्रमात्वं, स्वात्मप्रकाशकतया तु प्रमाणभावः । अर्थावगाहनघटा परतो विभिन्ना - ऽभिन्नात्मबोधरचना स्वत एव यस्मात् ।।८९२।। बोधः स्वपूर्वमतितो जननात् प्रमात्मा, स्वोदीच्यबोधफलतोऽथ प्रमाणरूपः । बोधात्मनाऽऽत्मनियतश्च प्रमातृरूपो, ह्यन्वर्थता भवति तेन प्रमाणतादे: ।।८९३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158