Book Title: Nyayasindhu Author(s): Nemisuri, Kirtitrai Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi AhmedabadPage 81
________________ ॥ श्रीन्यायसिन्धुः ॥ नो सर्वथाऽवयवरूपतयैव जैनैः, कुम्भादयोऽवयविनोऽभिमतास्तथात्वे । अर्थक्रियामतिवचांसि विभेदतो न, स्युर्वो मतेऽवयविनोऽवयवाद्यतोऽत्र ।।६७३।। शक्त्याऽऽत्मना च महदाद्यपि मानमासीत्, कुम्भात्मकाणुनिचयेषु मते जिनानाम् । नैवाऽसतो हि शशशृङ्गवदेव जन्मा - ऽभीष्टं ततो भवति चेतनता न भूते ।।६७४।। भिन्नं न चाऽस्त्यणुचयान्महदादि मानं, स्याद्वादवाद्यभिमतं च कथञ्चिदेव । तत्प्रक्रिया तव मते घटते न चैका - न्तोच्छेदभीतित इति प्रविचारयाऽन्तः ।।६७५।। देहे तु चेतनतयाऽभ्युपगम्यमाने, व्यासज्यवृत्तिरिह चेतनताऽन्यथा वा । आद्ये बहुत्वमिव नाऽणुचयात्मकेऽस्मिन्, कस्याऽप्यणोर्विगमतो ननु सा तव स्यात् ।।६७६।। अन्त्ये कथं न बहवोऽभ्युपगम्यमाना - स्तत्तच्छरीरनियता मतिगोचराः स्युः । ऐक्यानुभूतिरपि नैव विभिन्नरूपे, चैतन्ययोगिनि सुखादिधियस्तथा स्यात् ।।६७७।। छेदेऽपि किञ्च शिरसोऽन्यसमाश्रिता सा, किं नाऽस्ति येन मरणं शिरसो वियोगात् । प्राणोत्क्रमात् तव मते न च चेतनाया, युक्तः क्षयोऽपि खलु भूतसमाश्रितायाः ।।६७८।। प्राणत्वजातिरपरा न मते तवाऽस्ति, यन्त्रादितस्तनुगतात् पवनाद् विशेषः । प्राणस्य सिद्ध्यतु कुतो यदि वा विशेषो, जातिं विनाऽप्यभिमतोऽत्र तदाऽऽत्मसिद्धिः ।।६७९।। आयुःक्षयात् प्रबलकर्मपराहतेश्च, कश्चिन्मृतो भवति न त्वपरः समाने । रोगे चिकित्सनविधौ च चिकित्सके च, पथ्ये तथैव करणे परिचारकेऽपि ।।६८०।। आयुः क्षयो न न च कर्म विरुद्धमस्ति, भूतात् परं तव मते निरुजे शरीरे । किं कारणं वद न येन तु चेतनत्वं, दोषत्रयोपशमने मृतकेऽविकारे ।।६८१।। नैव ज्वरादिकृतमस्ति तदोष्णतादि, युज्येत येन ननु तत्र विकारिभावः । नैवाऽविकारिणि निजस्य गुणस्य दृष्टो, हासः परं स तु विवृद्धिमुपैति भूयः ।।६८२।। किञ्चिद् विलक्षणतयाऽभिमतं च भूतं, वैगुण्यतो भवति यस्य चितां विनाशः । भूतस्वभावघटनाव्यतिरिक्त एष, आत्मप्रयोगजनितो ननु तत्स्वभावः ।।६८३।। व्याप्ति विना न च प्रसङ्गप्रवृत्तिरस्ति, व्याप्तिग्रहोऽभिमत एव प्रसङ्गकर्तुः । तत्त्वेऽनुमानमपि किं न भवेत् प्रमाणं, किं वा न चाऽऽगममतिः प्रमितिर्विविक्ता ।।६८४।। साङ्ख्यमतप्रदर्शनम् - नन्वेतदर्भकमतं भवतां विचित्र - युक्तिप्रथाविदलितं शतशोऽल्पमानम् । किं कापिलं मतमपि प्रथितं निरस्तं, कूटस्थनित्य इह येन भवेन्न चाऽऽत्मा ।।६८५।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158