Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 86
________________ ॥ श्रीन्यायसिन्धुः ॥ - - प्रेक्षावतां न विफलाऽत्र प्रवृत्तिरस्ती त्येतावतैव भवतेशनिराक्रियेष्टा । सैषा तथा सति भवेत् प्रकृतेर्न भोगा र्था निष्फला पुरुषतो फलसिद्ध्यभावात् ।।७३८।। जाड्यात् प्रवृत्तिरफलाऽपि मता त्वयाऽस्या, युज्येत सा यदि भवेत् सफलाऽत्र पुंसः । किन्तु प्रवृत्तिरखिला जड एव तेऽतः, सामान्यतः सफलता नियता प्रवृत्तौ ||७३९|| अन्यप्रसिद्धिमवलम्ब्य निराक्रिया चे दीशस्य तर्हि तत एव प्रधानभङ्गः । नैयायिकैरिह यतो न जडस्य वृत्ति - र्यलात्मिकाऽभ्युपगता प्रकृतौ कुतः सा ||७४०|| वत्सस्य वृद्धिरिह वास्तविकी स्वहेतोः, क्षीरादतीन्द्रियप्रयलबलप्रवृत्तात् । युक्ता तथा न पुरुषस्य सृतेरभावे, मुक्तिः समस्ति तव या प्रकृतेस्तु जन्या ||७४१ || यत्तत्वदृष्टिमवलम्ब्य न तत्त्वतोऽस्ति, बन्धो न मुक्तिरपि बोधमयस्य पुंसः । किन्तु प्रधानगतमेव पुमान् द्वयं तद् भ्रान्त्याऽभिमन्यत इति प्रथितं न सत्यम् ॥ ७४२ ।। बोधः सदैव पुरुषस्य निजस्वरूप स्तं चाऽन्यथा न प्रकृतिः कुरुते कदाचित् । भ्रान्तिर्न विम्बप्रतिबिम्बनतो ऽतिरिक्ता, सा नाऽऽत्मनो भवितुमर्हति पूर्वनीत्या ||७४३ || बुद्धौ भवेदपि च सा न च तेन बद्धो, ह्यात्मोपचारबलतोऽपि परेण वाच्यः । स्यादन्यथा किमु परोऽपि न तेन बद्धो, मुक्तः पुमान् स इव सर्वगतोऽविशेषात् ॥ ७४४|| सर्वस्य सर्वगतता तव सम्प्रदाये, पुंसो मता युगपदेव ततोऽस्तु बन्धः । मुक्तिश्च बुद्धिप्रतिबिम्बनताऽविशेषादन्यस्ततो न च यतोऽभिमतो विशेषः ||७४५ || स्वस्वामिभाववचनं नहि युज्यते ते ऽसङ्गित्वमस्य कपिलेन यतो निरुक्तम् । तत्राऽपि किञ्च न नियामकमस्ति किञ्चित्, कूटस्थता निखिलपुंनियताऽविशिष्टा ॥ ७४६ ॥ दृष्टा मयेति पुरुषः प्रकृतेरुपेक्षा - कारी तथोपरमति प्रकृतिस्तु दृष्टा । इत्यादिकं मननमीश्वरकृष्णवाचो, लब्धं न मुक्तिफललाभनिदानभूतम् ॥७४७।। यस्मात् समानविषयाः पुरुषास्तु सर्वे, सन्त्येव बुद्धिनिकरेषु समस्वभावाः । व्यापि प्रधानमपि सर्वसमानमेव, किं कारणं युगपदेव न ते विमुक्ताः ||७४८ || मालिन्यमस्य नितरां तव मुक्तिकाले, छिन्नं ततोऽम्भसि शशीव न किं प्रसन्ने । तस्मिन् प्रधानममलं प्रतिबिम्बनादि, बुद्ध्यादिकं च विदधातु सुबन्धनाय ||७४९ ।। बुद्धिर्न चाऽस्ति तत एव न बद्ध्यतेऽसौ यस्मात् प्रधानमपि वुद्धिबलेन तस्मिन् । विम्बादिकल्पनमुखेन करोति वन्ध - मित्यादि शून्यवचनं कपिलानुगानाम् ॥७५०।। - Jain Education International For Private & Personal Use Only ५९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158