Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
६४
यद्वत् प्रधानमनुमानमतिं विना नो, लोकस्य सिद्धिपदवीमुपयाति तद्वत् । नाशोद्भवावपि तदात्मतयाऽक्षवोधे, स्यातां न चैव विषयाविति तर्कपन्थाः ||८०३ || किञ्च प्रधानमपि नैक्यविभुत्वयोगि, तत्त्वे भवेद् विविधरूपसमन्वयेन । पादप्रसारणमबाध्यकथञ्चिदुक्त्या, स्यात् ते तदा यदि जिनागमतत्त्वनिष्ठा ||८०४ || उत्पद्यते ननु यदैव कटादिभावो, हेम्नि स्थिते भवति कुण्डलभावनाशः । किं नो तदैव विबुधैकपदार्थचिन्ता - यामप्यभेद इह तत्प्रकृतेर्न युक्तः ॥ ८०५ || पक्षोऽन्तिमो यदि मतस्तव तर्हि सोऽपि युक्त्या न सिद्धिमुपगच्छति बाध्यमानः । हेतुर्मतस्तव यतो न च कार्यकाले स्वस्वस्वभावसहितोऽचलितस्वभावः ॥ ८०६ ॥
"
Jain Education International
॥ श्रीन्यायसिन्धुः ॥
किञ्च द्वयं जनिमतां प्रथमं तव स्याद्धेतोस्तदैव नियमेन यतोऽस्ति वृत्तिः । नाशक्षणे स्वसमये च न हेतुसत्ता, स्वस्वस्वरूपनियताऽस्ति विभिन्नभावात् ||८०७ || इत्यादिदोषघटना कपिलानुगानां, नो केवलं भवति किन्तु समानतन्त्रे | पातञ्जलेऽपि च तथैव सुबुद्धिभाजां स्पष्टीभविष्यति किमत्र प्रयत्नतो नः ||८०८|| तेनाऽपि तत्त्वमननं कपिलानुसारि, यस्मात् कृतं परमनेन महेश्वरोऽपि । कर्ता तो भवति तस्य निराक्रिया तु, पूर्वप्रदर्शितदिशेशनिराक्रियातः ||८०९ || जैनमते विरोधापादनम् -
-
नन्वस्तु लक्षणमिदं निरुपद्रवं वस्तादात्म्यमस्य च पुनर्नहि भेदमिश्रम् ।
मात्रा सहोपगतमस्ति कथञ्चिदुक्ति - व्याजात् प्रकाशिततनु प्रमया प्रसिद्धम् ||८१०|| अग्निर्जलेन रविणा सह चन्द्रबिम्बं नक्तं दिवा हिमगिरिर्मलयाचलेन । काकः पिकेन विरहः प्रतियोगिना चेद्, वर्तेत ते ननु तदेदमपि प्रसिद्ध्येत् ||८११ ।। नोऽस्म्यहं प्रतिपदं प्रतिवादियुक्ति - व्रातं कथञ्चिदिति मन्त्रवरेण कामम् । हन्तुं प्रभुः किमिह युक्तिगवेषणेन, गर्वस्त्वयं तव विरोधभयेन भग्नः ||८१२ ।। नो चेद् विरोधहरिभीतिरलं कथञ्चिद्, वादं कलङ्कमिव चेतसि वाक्प्रपञ्चैः । त्वं स्वीकरोषि बुध ! केवलमात्ममात्रं, दुर्मत्तदन्तिवरमाश्रय निर्विकारम् ||८१३|| विज्ञानतां जडगतामुपगम्य योगा - चारेण सख्यमपि किं न कृतं त्वयाऽभूत् । शून्यत्वमप्रतिहते निखिलेषु सत्त्वा - बाध्यं वदन् कुरु गुरुं बुध ! बुद्धपुत्रम् ||८१४|| स्थैर्ये स्थितेऽपि च विरोधविलोपकर्त्रा - ऽनित्यत्वमस्य जगतो बुध ! बौद्धनीत्या । स्वीकृत्य किं न भवता व्यवहारलोपि, सौत्रान्तिकेन सह सख्यमकारि नव्यम् ||८१५।।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158