Book Title: Nyayasindhu Author(s): Nemisuri, Kirtitrai Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi AhmedabadPage 94
________________ ॥ श्रीन्यायसिन्धुः ॥ एकान्ततत्त्वघटना ननु यस्य पक्षे, भेदो विरुद्धबलतोऽभिनवस्तु तस्य । भेदः सदैव परिपन्थिदलेन येषां तेषां समग्रनययोगवतां क्व भीतिः ||८४२ || भेदे स्थिते तु निजधर्मिषु धर्मयोः स्याद्, भिन्नाश्रितत्वबलतस्तु विरोधसिद्धिः । तस्माच्च भेदघटना निजधर्मिषु स्यादन्योन्यसंश्रयघटा कथमत्र न स्यात् ||८४३ || आधारभेदमननां च विनैव मानात्, तद्ग्राहकाद् यदि विरोधघटा प्रसिद्धा । मानात् तदाऽनुभवतो न कथं विरुद्ध धर्माश्रयोऽस्त्विह कथञ्चिदनन्यतावान् ||८४४|| एषैव युक्तिरिह बौद्धनिराक्रियायां, नैयायिकैरपि मता स्थिरपक्षहेतुः । नो चेद् विरोधहतिरेव भवेद् घटादौ, सामर्थ्यतद्विरहयोः स्थिरताप्रथायाम् ||८४५|| एकत्र परिमाणद्वयोपपादनेन नैयायिकमतखण्डम् किञ्चाऽपरः सुगतशिष्यप्रदर्शितोऽस्य, दोषो महान् भवति तत्त्वत ऐक्यवादे || यस्मात् स्थितेऽपि किमु धर्मिणि कालभेदा - देकत्र भिन्नपरिणामसमन्वयो नो । ८४६ ।। द्रव्यस्य नाशजनितो यदि तस्य नाशो, रूपस्य किं नहि तथैव विनाश इष्टः । पूर्वापरैक्यविषयावगतेस्तु तत्र, नो द्रव्यनाश इति चेत् प्रकृतेऽपि तुल्यम् ||८४७।। द्रव्यान्तरोपजननादथ वा तु पूर्व द्रव्येऽविनाशिनि भवेत् पृथगेव मानम् । साजात्यदोषबलतो न पृथक् प्रतीतिः, पूर्वस्य तेन न विनाशप्रकल्पनाऽपि ॥ ८४८ || तेनैकदीर्घतरतन्तुवितानताना भ्यां यत्र वस्त्रजनिरंशुप्रयोगताऽस्ति । - नो खण्डतन्तुभवनं न च पूर्वतन्तु - नाशोऽपि तत्र कणभक्षसुतैरुपेयम् ||८४९ ।। तन्त्वंशुयोगजनकादुभयत्र वस्त्रं, सञ्जायतां किमपि नाऽत्र च दूषणं वः । यस्माद् विरोधनियमोपगमे न मूर्त्तानां मूर्त्तयोरथ च मानमिहाऽस्ति किञ्चित् ||८५०|| किञ्चाऽवगाहनविशेषवशाच्च पूर्व मानं द्वितीयपरिमाणतयाऽविनाशे । द्रव्यस्य किं परिणतं न भवेत् ततश्च द्रव्यान्तरोपजननं न पृथक् प्रकल्प्यम् ||८५१ ॥ दृष्टोऽवगाहनविशेषबलाच्च लोष्ठः, कार्पासकादित इहाऽल्पतनुर्गरिष्ठः । आरम्भकावयवगा तु बहुत्वसङ्ख्या, तत्र स्थिताऽपि न विलक्षणमानहेतुः ||८५२ || संयोगिपुद्गलवलादवगाहनस्य, वैशिष्ट्यतोऽपि परिमाणविशेष इष्टः । दुग्धं हि पारदविनिर्मितपात्रपीतं, वान्तं मितं न्वितरथाऽधिकमानमेव ||८५३ || एतेन योऽप्यवयवान्यजलादिवस्तु संसर्गतोऽवयविनो न हि मानभेदः । स्वारम्भकावयवयोगभवे तु तस्मिन् नाशो नवीनजननात् प्रथमस्य युक्तः ||८५४ || Jain Education International 1 - For Private & Personal Use Only ६७ www.jainelibrary.orgPage Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158