Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 83
________________ ५६ ॥ श्रीन्यायसिन्धुः ॥ एकान्ततः परमसौ तव युज्यते नो, निष्पादनं भवति कारणकूटतो यत् । सिद्धस्य नोऽन्यनिरपेक्षतया परन्तु, साध्यस्य पूर्वमसतस्तु कथञ्चिदेव ।।६९९ ।। या चाऽसतो जनिनिराकरणेऽस्ति युक्तिः, सा स्यात् परोपगतनीतिपथे त्वदुक्ा । स्याद्वादतन्त्रविमुखे न तु सर्वविज्ञ मानप्रथापरिगते सबलात्मकेऽपि ॥ ७०० || सत्त्वं सुखं भवति दुःखमयं रजोऽथ, मोहस्तमो गुण इति त्रितयात्मकं चेत् । बाह्यं घटादि ननु तर्हि प्रधानसिद्धि - र्युक्ता तदात्मकतया तव नैतदेवम् ॥७०१ || सातानुभूतिविषयः सुखमिष्यते स्व - संवेदनात्मकतया तदपि प्रमातुः । ज्ञानात्मकं भवति तन्न घटादि वाह्यं दुःखं तथा तदिव नो न च मोहरूपम् ||७०२ || बाह्यं सुखात्मकमतो नयनादितोऽस्य, बुद्धौ तु बिम्बप्रतिबिम्वनभावतश्चेत् । सातात्मिका परिणतिर्न तथा कथं स्याद्, दुःखात्मिकाऽपि च तदैव ततस्तथा सा || ७०३ ॥ तात्कालिकं यदि रजस्तमसी व्यपेक्ष्य, सत्त्वं विवृद्धमत एव सुखं न दुःखम् । तद्दर्शनेऽपि ननु तर्हि समानकालं, किं पश्यतां भवति नो सुखमेव बाह्यम् ||७०४ || इष्टोऽथ ते यदि महानपि देहभेद - भिन्नो गुणत्रययुतस्तत एव यस्याम् । बुद्धौ भवेदुपचयो ननु यस्य तस्यां तस्य स्वतुल्यबहिरर्थगुणव्यपेक्षा || ७०५।। " = एवं स्थिते भवति सत्त्वगुणप्रकर्षे, बुद्धौ सुखात्मप्रतिबिम्वनमर्थराशेः । सत्त्वोदयादथ च तद्विपरीततः स्याद्, दुःखादिजन्मनियमोऽप्युपपन्न एवम् ||७०६ || नन्वेतदप्यनुपपन्नमवेहि यस्मात् सत्त्वादिवृद्ध्युपचयादि भवेत् कथञ्चित् । भिन्नत्वयोगिषु महत्सु समानकाले, बाह्ये कथं भवतु चैकतयाऽवभाते ॥ ७०७ || एकक्षणेऽपि यदि बाह्यघटादिवस्तु, स्वद्रष्टृभेदवशतस्तु विभिन्नमेव । तस्मात् सुखादिगुणवृद्ध्युपमर्दनाभ्यां भिन्नावभासि प्रतिविम्वनमस्ति तर्हि ||७०८ || एकान्ततत्त्ववचनं तव नैव सिद्धये दैक्येऽपि भेदघटनोपगमेन किञ्च । गुणत्रयसमाश्रयणं विनाऽपि, बुद्धौ भविष्यति सुखादि विचित्रतातः । । ७०९ ।। एतेन किञ्चिदिह किञ्चिदपेक्ष्य सत्त्व - रूपात्मना जननतः सुखकारि तस्य । दुःखात्मना तु जननादथ दुःखकारि, मोहात्मना जननतो ननु मोहकारि ||७१०|| एतन्निरस्तमथ वाऽत्र कथं नु पक्षे, यो यस्य दुःखजनकोऽथ स एव तस्य । कालान्तरे भवतु मोहजनौ समर्थ, आनन्दहेतुरपि सैव कथं च भावः ॥ ७११॥ Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158