________________
५६
॥ श्रीन्यायसिन्धुः ॥
एकान्ततः परमसौ तव युज्यते नो, निष्पादनं भवति कारणकूटतो यत् । सिद्धस्य नोऽन्यनिरपेक्षतया परन्तु, साध्यस्य पूर्वमसतस्तु कथञ्चिदेव ।।६९९ ।। या चाऽसतो जनिनिराकरणेऽस्ति युक्तिः, सा स्यात् परोपगतनीतिपथे त्वदुक्ा । स्याद्वादतन्त्रविमुखे न तु सर्वविज्ञ मानप्रथापरिगते सबलात्मकेऽपि ॥ ७०० || सत्त्वं सुखं भवति दुःखमयं रजोऽथ, मोहस्तमो गुण इति त्रितयात्मकं चेत् । बाह्यं घटादि ननु तर्हि प्रधानसिद्धि - र्युक्ता तदात्मकतया तव नैतदेवम् ॥७०१ || सातानुभूतिविषयः सुखमिष्यते स्व - संवेदनात्मकतया तदपि प्रमातुः । ज्ञानात्मकं भवति तन्न घटादि वाह्यं दुःखं तथा तदिव नो न च मोहरूपम् ||७०२ || बाह्यं सुखात्मकमतो नयनादितोऽस्य, बुद्धौ तु बिम्बप्रतिबिम्वनभावतश्चेत् । सातात्मिका परिणतिर्न तथा कथं स्याद्, दुःखात्मिकाऽपि च तदैव ततस्तथा सा || ७०३ ॥ तात्कालिकं यदि रजस्तमसी व्यपेक्ष्य, सत्त्वं विवृद्धमत एव सुखं न दुःखम् । तद्दर्शनेऽपि ननु तर्हि समानकालं, किं पश्यतां भवति नो सुखमेव बाह्यम् ||७०४ || इष्टोऽथ ते यदि महानपि देहभेद - भिन्नो गुणत्रययुतस्तत एव यस्याम् ।
बुद्धौ भवेदुपचयो ननु यस्य तस्यां तस्य स्वतुल्यबहिरर्थगुणव्यपेक्षा || ७०५।।
"
=
एवं स्थिते भवति सत्त्वगुणप्रकर्षे, बुद्धौ सुखात्मप्रतिबिम्वनमर्थराशेः । सत्त्वोदयादथ च तद्विपरीततः स्याद्, दुःखादिजन्मनियमोऽप्युपपन्न एवम् ||७०६ || नन्वेतदप्यनुपपन्नमवेहि यस्मात् सत्त्वादिवृद्ध्युपचयादि भवेत् कथञ्चित् । भिन्नत्वयोगिषु महत्सु समानकाले, बाह्ये कथं भवतु चैकतयाऽवभाते ॥ ७०७ || एकक्षणेऽपि यदि बाह्यघटादिवस्तु, स्वद्रष्टृभेदवशतस्तु विभिन्नमेव । तस्मात् सुखादिगुणवृद्ध्युपमर्दनाभ्यां भिन्नावभासि प्रतिविम्वनमस्ति तर्हि ||७०८ || एकान्ततत्त्ववचनं तव नैव सिद्धये दैक्येऽपि भेदघटनोपगमेन किञ्च ।
गुणत्रयसमाश्रयणं विनाऽपि, बुद्धौ भविष्यति सुखादि विचित्रतातः । । ७०९ ।। एतेन किञ्चिदिह किञ्चिदपेक्ष्य सत्त्व - रूपात्मना जननतः सुखकारि तस्य । दुःखात्मना तु जननादथ दुःखकारि, मोहात्मना जननतो ननु मोहकारि ||७१०|| एतन्निरस्तमथ वाऽत्र कथं नु पक्षे, यो यस्य दुःखजनकोऽथ स एव तस्य । कालान्तरे भवतु मोहजनौ समर्थ, आनन्दहेतुरपि सैव कथं च भावः ॥ ७११॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org