________________
॥ श्रीन्यायसिन्धुः ॥
आत्मा तु चेतनतया तव सम्मतो यः, कर्ता स एव सुखदुःखफलोपभोक्ता । अस्तु प्रधानमहदादि निरर्थकं ते, कूटस्थता किमिह सत्त्वविरोधिनी नो ।।७१२।। स्वाभाविकस्य विगमो न कदाचिदस्ति, दुःखादिकं पुरुषगं यदि चेत् तदाऽस्य । मुक्तावपि प्रकटनं च भवेत् स्वभावात्, तस्मात् सुखादिगुणतो वियुताः पुमांसः ।।७१३।। एकाश्रितत्वमिह कर्तृतया सुखादेः, प्रत्यक्षतः प्रथत एव न कर्तृताऽपि । युक्ता तथाऽऽत्मनि सुखादिगुणैर्विहीने, इत्येतदप्यनुचितं कपिलानुगानाम् ।।७१४।। दुःखादि तस्य खलु कार्मणदेहयोगा - ज्जैनैर्मतं भवति तद्विगमेऽस्य नाशः । मुक्तौ सुखादि निजरूपमबाधमस्य, स्वाभाविकस्य नहि तैरपि नाश इष्टः ।।७१५।। बुद्धिः सती तव मते न विनाशमेति, आत्यन्तिकं भवति किं न कदाचिदस्याः । मुक्तावपि प्रथमवन्निजकार्ययोगः, स्वाभाविकः सकल एव सुखादिभावः ।।७१६।। तस्माद् यथा तव मते महतां प्रवृत्ति - मुक्तात्मनः प्रति सतामपि नो तथा नः । देहादियोगविगमात् पुरुषेषु सत्सु, मुक्तौ स्वभावबलतोऽपि न दुखभीतिः ।।७१७।। किञ्च त्वयाऽपि किमु नो जिनसम्प्रदायो - ऽभीष्टोऽत्र लिइतनुकल्पनया प्रमातुः । यत्कार्मणं जिनमते प्रथितं तदेव, भङ्गयन्तरेण कपिलेन प्रदर्शितं यत् ।।७१८।। तद् बुद्ध्यहङ्कृतिमनोनियतं शरीरं, तन्मात्रभूतघटितं दशभिस्तथाऽक्षैः । लिङ्गं मतं तव जिनागमतस्तु सिद्धं, तत् पुद्गलात्मकमिति प्रविचारयाऽन्तः ।।७१९।। यच्च त्रयात्मकतया प्रथितं प्रधानं, तज्जैनतत्त्वसरणौ निखिलेषु सत्त्वम् । उत्पत्त्यवस्थितिलयेषु गुणत्रयस्या - ऽन्तर्भावनं च बुध ! केवलमत्र कार्यम् ।।७२०।। वृत्तिक्रमोऽपि तव तत्त्वत एव नाऽस्ति, भिन्नो जिनोक्त्यवगतान् मतिधीक्रमाच्च । आलोचनं तव मते बहिरिन्द्रियाद् य - ज्जैनैर्मतं च तदवग्रहनामधेयम् ।।७२१।। यन्मानसं तव मतेऽर्थविशेषधर्म - संस्पर्शि निर्णयमतेः प्रथमं विवेकात् । सम्भावनं तदपि जैनमते प्रसिद्ध - मीहाख्यकं परमसौ वहिरिन्द्रियाच्च ।।७२२ ।। या निर्णयात्मकमतिर्मनसा तवाऽस्ति, या वाऽस्त्यहङ्कृतिवशादभिमानरूपा । बुद्धयुद्भवाऽध्यवसितिश्च मताऽथ या सा, सर्वाऽप्यवायमतिभेदतया जिनेष्टा ।।७२३।। शक्त्यात्मना स्मृतिभवाऽनुगुणाऽथ वृत्ति - र्बुद्धौ तवाऽस्त्यभिमता ननु याऽऽर्हतानाम् । सा धारणाऽऽवृतिलयक्रमतः परन्तु, तेषां क्रमो जिनमतः करणक्रमान्नो ।।७२४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org