________________
॥ श्रीन्यायसिन्धुः ॥ यत्र द्वयोर्भवति भिन्नसमाश्रितत्व - मव्यापिता तदुभयोः प्रतिबिम्बनं स्यात् । अन्योन्यमत्र न विभोः पुरुषस्य युक्तो, बुद्ध्या तु बिम्बप्रतिबिम्बनभावबन्धः ।।७२५।। कूटस्थनित्यपुरुषस्य कदाचिदस्ति, मुक्तिर्न ते भवति सा प्रकृतेः परन्तु । एवं स्थिते तु पुरुषा बहवः किमर्थ - मिष्टास्त्वया प्रकृतिवत् किमु नैक एव ।।७२६।। एकोऽप्युपाधिविगमात् क्वचिदेव मुक्तो, दुःखादियोगविगमोऽपि तथा क्वचित् तु । बिम्बादिकल्पनमपि प्रतिदेहमेव, भिन्नं भविष्यति विभोः पुरुषस्य यस्मात् ।।७२७।। किञ्च स्वतोऽस्य विषयेण न चाऽस्ति सङ्गो, बुद्धयादिकल्पनमतो भवता न्यगादि । मुक्तौ तु बुद्धिविगमाज्जडतैव तस्य, ह्यर्थप्रबोधविरहे न निजप्रकाशः ।।७२८।। सनातरूपमखिलं च परार्थमेव, दृष्टं यतः शयनभोजनचन्दनादि । तस्मात् प्रधानमहदादि तदात्मकं स - दात्मानमन्यमनुमापयतीति तत्र ।।७२९।। आत्मा परस्तव मतो विभुतादिधर्मा - ऽनेकात्मको भवतु तेन परस्ततोऽपि । पूर्वप्रदर्शितदिशा त्वपरस्तथा च, नैवाऽनवस्थितिभयात् पुरुषप्रसिद्धिः ।।७३०।। त्रैगुण्यमेव यदि हेतुतया मतं ते, तन्नाऽऽत्मवृत्ति तत एव परो न तस्मात् । आत्माऽपि तर्हि तव नैव परः प्रसिद्ध्येत्, त्रैगुण्यशून्य इह योऽभिमतस्ततः सः ।।७३१।। देहार्थमेव शयनाद्युपभोग्यमिष्टं, देहो न किं तव मतस्त्रिगुणस्वरूपः । तद्वत् पुमानपि परस्त्रिगुणस्वरूपः, सिद्धयेत् ततो भवति हेत्वप्रसिद्धिरेवम् ।।७३२।। त्रैगुण्ययोग्यपि यथा न तव प्रधानं, कार्यं मतं जनककोट्यनवस्थयैवम् । तस्याऽर्थमेव सकलं प्रकरोति वस्तु, नो कस्यचित् तदिति किं न मतं तवाऽभूत् ।।७३३।। किञ्चाऽप्रयोजकमिदं व्यभिचारशङ्का - नाशोद्यतोऽस्ति न हि तर्क इह प्रगल्भः । पङ्ग्वन्धयोरिव तदा न प्रवृत्तिबोधौ, संयोगकल्पनवशादुभयोस्तु युक्तौ ।।७३४।। चैतन्यतापरिगतौ पुरुषौ मिथोऽभि - प्रायार्थवोधकुशलावलमर्थसिद्धौ । अन्यादृशे तु प्रकृते पुरुषप्रधाने, दृष्टान्तमात्रत उपेयगतिं न यातः ।।७३५।। कूटस्थतापरिगते पुरुषे न युक्तं, भोक्तृत्वमन्यसहकारिवशात् तथैव । साक्षित्वमप्यविकृतस्य न लोकसिद्ध - दृष्टान्तमात्रबलतोऽस्य बुधैरुपेयम् ।।७३६।। साक्षित्वमस्य विभुताऽथ च चेतनत्वं, कूटस्थता-त्रिगुणतादि मिथो विविक्तम् । व्यावृत्तिभेदबलतो न विभिन्नतां किं, शास्त्येकतो वद मतं न मतं त्वया नः ।।७३७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org