Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
॥ श्रीन्यायसिन्धुः ॥
कर्तृ प्रधानमिह सत्त्वरजस्तमोभि - रेकं सदेव च गुणैस्त्रितयात्मकं यत् । व्याप्य स्थितं त्रिभुवनं परिणामयोगि, नित्यं क्रियारहितमज्ञमनन्यतन्त्रम् ॥६८६।। तस्यैव सत्त्वगुणवृद्धिकृता त्ववस्था, बुद्धिर्गुणत्रयमयी महदादिवाच्या । आमोक्षमात्मनियता तत एव पुंसो - ऽभेदाद् भवो भ्रमकृतोऽपरिणामिनोऽपि ।।६८७।। एकात्मसंसृतिविमुक्तिवशाद् यतो न, सर्वात्मसंसृतिविमुक्तय आप्तमान्याः । तस्माद् भवन्ति बहवः पुरुषास्तथैव, स्युर्बुद्धयो मतिसुखादिगुणास्तु तासु ।।६८८।। तवृत्तिरत्र कपिलानुमतं प्रमाणं, ज्ञानं घटोऽयमिति सैव जनप्रसिद्धम् । आत्मा तदाऽऽलिखित एव प्रमाफलं स्या - दन्योन्यमेव प्रतिबिम्बनमिष्यतेऽत्र ।।६८९।। बुद्धिर्जडाऽपि पुरुषप्रतिविम्बनेन, चैतन्यतापरिगतेव विभात्यभेदात् । तद्वत् पुमान् भवति तत्प्रतिबिम्वनेन, कर्तेव बोधविषयः स्वयमप्यकर्ता ।।६९०।। पङ्ग्वन्धयोरिव परस्परसव्यपेक्षा, बुद्ध्यात्मनोभवति कार्यजनौ समर्था । भोक्तृत्वतो विषयसाक्षितया पुमांस - श्चैतन्यभावनियता विभवोऽथ नित्याः ।।६९१ ।। आत्मा न संसरति नाऽपि विमुच्यते यत्, कूटस्थनित्यमत एव तमामनन्ति ।। वुद्ध्यात्मना प्रकृतिरेव च बद्ध्यते सा, तत्त्वप्रबोधजनने तु विमुच्यते वै ।।६९२।। तत्त्वं न चाऽन्यवुधदर्शनतन्त्रसिद्ध, तत् पञ्चविंशतितया कपिलोक्तमेव । तत्र त्रयं प्रथमदर्शितमन्यदित्थं, बुद्धेरहंकृतिरसावपि पूर्ववत् स्यात् ।।६९३।। घाणत्वगक्षिरसनाश्रुतिसंज्ञकानि, ज्ञानेन्द्रियाणि च भवन्ति ततस्तथैव । कर्मेन्द्रियाणि वचनग्रहणादिकर्म - कारीणि पञ्च कपिलानुमतानि तानि ।।६९४ ।। वाक्पाणिपादसहिते भवतश्च पायू - पस्थे मनस्तदुभयात्मकमेवमस्मात् । तन्मात्रसंज्ञकतया प्रथितानि पञ्च, भूतानि षोडशगणः समुदेत्यहन्त्वात् ।।६९५।। भूतेभ्य एभ्य इतराणि भवन्ति पञ्च, भूतानि तानि च महान्ति मतानि विज्ञैः । आकाशवाय्वनलजीवनपार्थिवानि, तत्त्वान्तरं भवति नो जनितं च तेभ्यः ।।६९६।। मुण्डी शिखी भवतु वाऽस्तु गृही कपाली, यो वेद कापिलमतप्रथितं च तत्त्वम् ।
पूर्वप्रदर्शितमिदं गृहिणीव तस्य, मुक्तिः सदा भवति सन्निहिताऽप्रयलात् ॥६९७।। साङ्ख्यमतखण्डनम् -
इत्यादि कापिलमतं न विचाररम्यं, प्राधान्यमेव प्रकृतौ नहि सिद्धिमेति । सत्कार्यवादमवलम्ब्य भवेच्च तस्य, सिद्धिर्गुणत्रयमयस्य न चाऽन्यथाऽपि ।।६९८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158